________________
१९०
काव्यमाला।
त्वद्वचनादहमगमं तस्या निकटे, परं मामालोक्यापि न सा किश्चिदुक्तवतीति वदन्तं नायकं प्रौढा दूती सुमधुरमाह
किं ण भणिओ सि बालअ गामणिधृआइ गुरुअणसमक्खम् । अणिमिसमीसीसिवलन्तवअणणअणद्धदिटेहिं ।। ७० ॥ [किं न भणितोऽसि बालक ग्रामणीपुच्या गुरुजनसमक्षम् ।
अनिमिषमीषदीषदलद्वदननयनार्धदृष्टैः ॥] ग्रामणिसुतया बालक गुरुजननिकटेपि किं न भणितोसि।
अनिमिषमीषद्विवलद्वदनसुनयनार्धसंदृष्टैः॥ ७० ॥ ग्रामणिसुतया ग्रामनायकपुत्र्या 'इको ह्रस्वोऽङ्ग्यः' इति हस्खः । अनेन पितृगृहस्थितायास्तस्याः सुलभत्वं नववयःशालित्वं च द्योत्यते । अनिमिषं निमेषशून्यं यथा स्यात्तथा । ईषद्विवलत् किञ्चित्परावर्तमानं वदनं मुखं येषु एवंभूतानि यानि सुन्दराणि नयनार्धदृष्टानि कटाक्षवीक्षितानि तैः ( करणे तृतीया ) । गुरुजनसविधेपि किं न भणितोऽसि, एतादृशमावश्यकं किमस्ति यन्न भणितोसि, अपि तु सर्व भणितोसीत्यर्थः । नयनार्धसंदृष्टैणितोसीत्यत्र वाच्यार्थतिरस्कारेण लक्षणा । तथा च तया गूढं सूचितोसीति व्यङ्ग्योर्थः । पर्यन्ते तु 'गुरुजनसंनिधानेपि सा इङ्गितैः सर्वमात्मगतं प्रकाशयामास, त्वं तु न तत्तात्पर्यमज्ञासीरित्यहो ते मौरध्यम्' इति बालकेतिसंबोधनसहकारेणाभिव्यज्यते । “ईषद्विवलितवदनं च नयनार्धदृष्टानि चेति कर्मधारयः” इति गङ्गाधरटीका । 'धूआए' इत्यस्य 'स्नुषायाः' इति च्छायां केचिद्वदन्ति, तेषां मते गुरुजनसमक्षमित्यस्य श्वशुरादिनिकटे इत्यर्थः स्यात् । एतमेवार्थ प्रकारान्तरेणाह
णअणब्भन्तरघोलन्तबाहभरमन्थराइ दिट्ठीए । पुणरुत्तपेछिरीए बालअ किं जं ण भणिओ सि ॥ ७१ ॥
[नयनाभ्यन्तरघूर्णमानबाष्पभरमन्थरया दृष्ट्या । ___ पुनरुक्तप्रेक्षणशीलया बालक किं यन्न भणितोऽसि ॥] नयनाभ्यन्तरविसरद्वाष्पभरोद्वन्धमन्दया दृष्ट्या ।
पुनरुक्तप्रेक्षितया बालक किं यन्न भणितोसि ॥ ७१ ॥ तवावलोकनजातेन हर्षेण नयनाभ्यन्तरे विसरन् घूर्णमानो यो वाष्पभरस्तस्योद्वन्धेन आपूरणेन मन्दया मन्थरया दृष्ट्या । पुनरुक्तं प्रेक्षितं यस्याः, वारं वारं विलोकनशालिन्येति यावत् । ईदृश्या तया । उत्कण्ठावशात् मुहुर्विलोकनशालिन्या तया त्वदर्शनजातहर्षेण सवाष्पमन्थरया दृष्ट्या सर्वमात्मगतं भणितोसीति भावः। व्यङ्ग्यार्थस्तु पूर्ववत् । अश्रुरूपेणानुभावेन रतेः प्रतीतिरत्रेति सरखतीकण्ठाभरणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org