________________
४ शतकम् ] संस्कृतगाथासप्तशती ।
१८९ 'मानालम्बनेपि गाढानुरागवशानाधिककालं मां व्यथयति सा' इत्यात्मनः सौभाग्यं सूचयन्नागरिकः सहचरमाह
भरिमो से सअणपरम्मुहीअ विअलन्तमाणपसराए । कइअवसुत्तुवत्तणथणकलसप्पेल्लणसुहेल्लिम् ॥ ६८ ॥ [स्मरामस्तस्याः शयनपरामुख्या विगलन्मानप्रसरायाः ।
कैतवसुप्तोद्वर्तनस्तनकलशप्रेरणसुखकेलिम् ॥] विगलन्मानभरायाः शयनपरायाः स्मरामोऽस्याः।
कैतवसुप्तोद्वर्तनकुचकलशापीडसुखकेलिम् ॥ ६८॥ मानवशात् शयने पराश्चयाः पार्श्व परिवर्त्य पराङ्मुखं सुप्तायाः। पश्चात् अनुरागोत्कण्ठया विगलन् शाम्यन् मानभरो यस्यास्तस्याः । विगलदिति वर्तमानार्थकशतृप्रत्ययेन तस्मिन्नेव क्षणे कोपशान्तिरारब्धेति सूचनेन नायिकाया नवीनोत्कण्ठोदयो ध्वन्यते । अतएव कैतवेन कपटेन यत्सुप्तोद्वर्तनं पार्श्वपरिवर्तनं कैतवेन सुप्ते शयने यद् , उद्वर्तनं पार्श्वपरिवर्तनमिति वार्थः । तत्र कुचकलशाभ्यां य आपीडो निबिडावमर्दस्तत्सुखकेलिं सरामः । औत्सुक्योदयेन पार्श्वपरिवर्तने कृते पीनोत्तुङ्गयोः कुचयोर्यः खयमेव गाढसं. मर्दस्तत्सुखं नाद्यापि विस्मराम इत्यर्थः । अनुनयं विनापि मद्तगाढानुरागवशात्सा विगलितमानाऽभवदित्यात्मनः सौभाग्यं ध्वन्यते ।
येन सह फाल्गुनोत्सवकेलिमन्वभूरस्ति तस्मितेऽनुराग इति सूचयन्ती सखी नायिका सपरिहासमाह
फग्गुच्छणणिदोसं केण वि कद्दमपसाहणं दिण्णम् । थणअलसमुहपलोहन्तसेअधोअं किणो धुअसि ॥ ६९ ॥ [फाल्गुनोत्सवनिर्दोषं केनापि कर्दमप्रसाधनं दत्तम् ।
स्तनकलशमुखप्रलुठत्स्वेदधौतं किमिति धावयसि ॥] फाल्गुनमहनिर्दोष दत्तं केनापि पङ्कमण्डनकम् ।
स्तनकलशाननविलुठत्खेदविधौतं हि किमिति धावयसि ॥६९॥ फाल्गुनमहे फाल्गुनोत्सवे निर्दोषं निन्दनीयतारहितम् । 'मह उद्धव उत्सवः' अमरः। केनापि दत्तम् । केनापीत्यनेन न वयं तं परिजानीमो मा लज्जस्वेति नायिकाया आश्वासनं ध्वन्यते । पङ्कमण्डनकं कर्दमरूपं प्रसाधनम् । कर्दमोपि निसर्गसुन्दरे त्वद्वपुषि भूषणमिव जातमिति नायिकायाः सौन्दर्य गूढमभिव्यज्यते । स्तनकलशयोमुखात् विलुठन् विगलन् यः स्वेदस्तेन धौतं क्षालितमपि पुनः किमिति धावयसि क्षालयसि । कर्दमप्रक्षेपसमये प्रक्षेप्तरि अनुरागवशाते स्वेदोद्गमो बभूवेति लक्षितमस्माभिः । ततश्च त्वं किमिलमत्तो गोपयसि । फाल्गुनोत्सवे न निन्दनीयमिदमिति सख्या ध्वन्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org