________________
१८८
काव्यमाला |
[ अभिलीयन्ते सुरभिनिःश्वसितपरिमलाबद्ध मण्डलं भ्रमराः । अज्ञातचन्द्रपरिभवमपूर्वकमलं मुखं तस्याः ॥ ]
सुरभिमुखानिलपरिमलनिबद्धमण्डलमभिद्रवन्त्यलयः । अज्ञातचन्द्रपरिभवमपूर्वकमलं मुखं तस्याः ॥ ६६ ॥
अलयो भ्रमराः । न ज्ञातश्चन्द्रपरिभवः चन्द्रसकाशान्मीलनं येन ईदृशम् अत एवापूर्वकमलं तस्या मुखम् सुरभिर्यो मुखानिलस्तस्य परिमलेन विशिष्टसुगन्धेन ( हेतौ तृतीया ) निबद्धं मण्डलं मण्डलभ्रमणं यस्मिन्कर्मणि यथा भवति तथा अभिद्रवन्ति तन्मुखपर्यन्ततो लीयन्त इत्यर्थः । अज्ञातचन्द्रपरिभवमिति व्यतिरेकः । अपूर्वकमलमिति गम्योत्प्रेक्षा रूपकं वा । अलयोभिद्रवन्तीत्यनेन बहवः कामुकास्तामनिशमनुबध्नन्तीति कामनीयत्वातिशयो द्योत्यते । अज्ञातचन्द्रपरिभवमित्यनेन उत्कृष्टादयुत्कृष्टं मुखं न तन्मुखं पराजेतुमलमिति सौन्दर्यातिशयः सूच्यते । ततश्च बहवः कामिनस्तामहर्निशमनुसरन्ति, अत एव सौभाग्यवता भवता सा त्वरितमुपगन्तव्या न च तस्याः समागमे कचित्प्रतिबन्धः ( अज्ञातचन्द्रपरिभवमिति )' इति नायकं प्रति चरमं व्यद्भयम् । अहिलेन्तीत्यस्य अभिलषन्तीति च्छायेति कश्चित् ।
नायिकायाः प्रणयातिशयं सूचयन्ती दूती नायकमाह
धीरावलम्बिरीअ वि गुरुअणपुरओ तुमम्मि वोलीणे । पडिओ से अच्छिणिमीलणेण पम्हडिओ वाहो ॥ ६७ ॥
[ धैर्यावलम्बनशीलाया अपि गुरुजनपुरतस्त्वयि व्यतिक्रान्ते । पतितस्तस्या अक्षिनिमीलनेन पक्ष्मस्थितो बाष्पः ॥ ]
धैर्यालम्विन्या अपि गुरुजनपुरतस्त्वयि व्यतिक्रान्ते । पतितोऽक्षिनिमीलनतो बाप्पः पक्ष्मस्थितस्तस्याः ॥ ६७ ॥
गुरुजनानां पुरस्तात्, विकारगोपनार्थं चैर्यालम्बनशीलाया अपि तस्याः [ ताच्छील्ये निः ] । त्वयि व्यतिक्रान्ते तामतिक्रम्य आगते सति । अक्षिनिमीलनतः विरहजनितविषादेन नेत्रनिमीलनात्, तस्याः पक्ष्मस्थितः एतावत्कालं धैर्येणावरोधात्पक्ष्मस्व स्थापितो वाष्पः पतितः कपोलयोः प्रावहत् । प्रयत्नवशाद् गुरुजनानुरोधादवरुद्धोपि दुःखावेगस्त्वदेकमात्रालम्बनया तया नाधिकं सोढुमपार्यत, अवशया तया पर्यन्ते गुर्वनुरोधोपि न बहु मानितः । एवं किल तस्याः सुदृढोनुराग इति नायकोत्कण्ठायै दूलाभिव्यज्यते । पक्ष्मसु किञ्चित्कालं वाष्पस्थित्या नेत्रयोर्विशालता व्यज्यते । अन्र " गुरुजनलज्जया तया नानुगमनं कृतं बाष्पेण पुनः कृतमेव" इत्यपदलभ्यमपि रमणीयमाह गङ्गाधरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org