________________
४ शतकम् ]
संस्कृतगाथासप्तशती।
१८७
समर्थः, न कोपीयर्थः । पयोधरानिति बहुत्वेन एकैव रमणी किं बयोपि सुन्दर्यो दैवदत्तराजपदस्य तेऽनायासमेव सुलभा इति प्रोत्साहनं ध्वन्यते । पयोधरान् मुक्त्वा कः समर्थ इत्यनेन 'महावीरस्य तव विस्तीर्णत्वादिपूर्वोक्तगुणयुक्ते हृदि शौर्यादिद्वारा बलात्प्रभावस्थापनं तु दुष्करम् , किं तु शौर्यद्वारा प्राप्तं विभवं भोगद्वारा सफलयतस्तव रसिकस्य हृदि नारीविलास एव स्थान प्राप्तुं शक्नुयादिति तच्छौर्यस्तुतिर्विलासार्थ राज्ञ उत्तेजनं च ध्वन्यते । वर्ण्य स्य हृदयस्य अप्रस्तुतस्य गगनस्य च स्थगनरूपैकधर्मान्वयाद्दीपकम् । 'वदन्ति वावानां धर्मैक्यं दीपकं बुधाः' । पर्यन्ततस्तु उच्चाभिलाषी भवानन्याः सामान्या वारवधूर्विहाय बहुव्ययलभ्यामपि नवयौवनामिमां मत्तनयामेव कामयिष्यते, यतो विस्तीर्ण हृदयो रसिकश्च भवानिति वस्तु ध्वन्यते।
इयं निकुञ्जे दत्तसंकेतेति परिज्ञातमस्या रहस्य मिति निजमार्मिकता सूचयन्नागरिकः सहचरमाह
आअण्णेइ अडअणा कुडङ्गहेट्ठम्मि दिण्णसंकेआ। अग्गपअपेल्लिआणं मम्मरअं जुण्णपत्ताणम् ॥६५॥ [आकर्णयत्यसती कुञ्जाधो दत्तसंकेता ।
अग्रपदप्रेरितानां मर्मरकं जीर्णपत्राणाम् ॥1 आकर्णयते ह्यसती कुञ्जतले दत्तसंकेता।
अग्रपदपीडितानां मर्मरकं जीर्णपत्राणाम् ॥६५॥ अग्रपदेन निजपादाप्रभागेन पीडितानामवमर्दितानां पुराणपर्णानां मर्मरकं चूर्णनकालिकं 'मरमर' इति शब्दम् । सहजचङ्घमणे पादतलपश्चाद्भागस्य भूमौ पूर्वमवस्थापनखभावात्सर्वशरीरभरस्य तत्रैव संक्रमणेन शुष्कपत्राणामतिशयितचूर्णीभावान्न तथा शब्दो यथा शनैर्निहितादग्रभागादर्धार्धमर्दितानां पत्राणामित्यग्रपदप्रयोगेणातिशयो व्यज्यते । अथवा कुञ्जतले संकेतकरणात्तत्तलेऽवनमितपूर्वकायं शनैः शनैर्गमनसमये मा कश्चन श्रोषीदिति सतर्कताखाभाव्याञ्चकितचकितमग्रपदमेव विन्यस्यते, अतएव अग्रपदपीडितानामिति सतर्कतातिशयसूचनार्थमुक्तिः । तथा चैवमतिसतर्क पदानि विन्यस्यन्त्यपि पत्रचूर्णनशब्दं सभयचकितमाकर्णयन्ती सेयं दत्तसंकेतेति मया ज्ञातमिति निजाभिज्ञता सुहृदं प्रत्यभिव्यज्यते । “संकेतस्थानगतं जारं कुट्टनी समाश्वासयितुमाह" इति गङ्गाधरावतरणम् । 'त्वत्पदशब्दमाकर्णयन्ती संकेतस्थिता सा ते दयिता तिष्ठति, ना व्याकुली भूः' इति तद्व्याख्यातात्पर्यम् । अत्र अग्रपदं जारस्य परिगृह्यते । परं खयमेव प्रोत्साह्यानयन्ती कुट्टनी प्रणयिनमेव प्रति तामसतीति कथं व्यपदिशेदित्येव विचार्यम् । नायकमुत्कण्ठयन्ती दूती कस्याश्चिन्मुखसौरभं वर्णयति
अहिलेन्ति सुरहिणीससिअपरिमलाबद्धमण्डलं भमरा । अमुणिअचन्दपरिहवं अपुवकमलं मुहं तिस्सा ॥६६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org