SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १८६ काव्यमाला। ( मध्येन ) कथं तनूयते दुर्बलायते [आचारार्थे क्यङ् ] । मध्यस्थ उभयोः पक्षमनालम्ब्य मध्यस्थत्वेन उदासीनतया स्थितः सन् यदि क्षयमधिगतः कृशोपि भवेत्तर्हि प्रतिपक्षं न पीडयति, प्रबलादेव पीडासंभवात् । किं तु तवायं मध्यस्थत्वादिगुणयुक्तोपि मध्यः सपत्नीजनं पीडयतीत्यपिशब्दवाच्यो विरोधालङ्कारः । अनेन चालंकारेण 'श्रोण्याद्यङ्गपरिष्कारकेणानेन ते नवयौवनेन सपत्नीजनोऽपचयमाप्य परां पीडामनुभवति, त्वं च मुग्धतया न जानासि तासां रहस्यम् ।' इत्यर्थो ध्वन्यते । 'पुत्रि' इति संबोधनेन त्वं मे स्नेहपात्रमसीति निजपक्षपातो नायिकाया मौग्ध्यं च द्योत्यते । 'इष्टसिद्धये दूती नायिकाया व्याजस्तुतिमाह' इति गङ्गाधरावतरणम् । तव वियोगे मम मर्मवेधिनी पीडा जायत इति निजप्रणयिनं काचित्सवैदग्ध्यं सानुरागं चाह वाहिव्व वेजरहिओ धणरहिओ सुअणमझवासो छ । रिउरिद्धिदसणम्मिव दूसहणीओ तुह विओओ ॥६३॥ [व्याधिरिव वैद्यरहितो धनरहितः स्वजनमध्यवास इव । रिपुऋद्धिदर्शनमिव दुःसहनीयस्तव वियोगः ॥] व्याधिरिव वैद्यरहितो धनरहितः स्वजनमध्यवास इव । दर्शनमिव रिपुलक्ष्म्या दुःसहनीयस्तव वियोगः ॥ ६३॥ रिपुलक्ष्म्या वैरिसमृद्धेर्दर्शनमिव, तव वियोगो दुःसहः । खनेत्राभ्यां दर्शनस्य श्रवणाद्यपेक्षया समधिकक्षोभकारित्वाद्दर्शनमिवेत्यनेन वेदनातिशयः सूच्यते । वैद्यरहितव्याध्यादेरेकैकस्य मरणान्तिकपीडाकारकत्वाहःसहनीयत्वं सर्वेषां साधारणो धर्मस्तथा च सेयमभिन्नधर्मा मालोपमा । एवं च तव वियोगे मम प्राणान्तिकपीडा जायत इत्या. त्मनोनुरागातिशयो ध्वन्यते । प्रियं प्रति नायिकायाः संदेशगाथेयमिति केचित् । वृद्धवाराङ्गना निजदुहितुः पीनोन्नतपयोधरतामभिधाय विलासिनं राजानं चाटूक्तिभिरनुकूलं कुर्वत्याह कोत्थ जअम्मि समत्थो थइउं वित्थिण्णणिम्मलुत्तुङ्गम् । हिअअं तुज्झ णराहिव गअणं च पओहरं मोत्तुम् ॥ ६४ ॥ [कोऽत्र जगति समर्थः स्थगयितुं विस्तीर्णनिर्मलोत्तुङ्गम् । हृदयं तव नराधिप गगनं च पयोधरान्मुक्त्वा ॥] कः स्थगयितुं समर्थोऽत्र जगति विस्तीर्णनिर्मलोत्तुङ्गम् । हृदयं च तव नराधिप गगनं च पयोधरान्मुक्त्वा ॥ ६४ ॥ विस्तीर्ण गभीराशयतया महावकाशम् , निर्मलं कपटादिकालुष्यरहितम् , उत्तुङ्गम् उच्चाभिलाषितया उन्नतम् ईदृशं तव हृदयम् , व्यापकं रजोमालिन्यरहितमुन्नतं गगनं च । राजपक्षे पयोधरान् स्तनान् , गगनपक्षे मेघान् मुक्त्वा कः स्थगयितुमधिकर्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy