________________
४ शतकम् ] संस्कृतगाथासप्तशती।
१८५ मुखीव कार्पासी जहासेत्युत्प्रेक्षा । आर्यामिति छन्दोनामसूचनान्मुद्रालंकारोप्ययनलभ्यो बोद्धव्यः । [सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः] । पर्यन्ते तु 'ग्रामीणस्यानभिज्ञतामवलोक्य स्त्रीभावात्स्त्रीरहस्यवेदिनी जडापि कार्पासी जहास, किं पुनरन्य इति तन्मुग्यतातिशयप्रकटनेनात्मनो गौरवं द्योत्यते ।
काचिदात्मनो निन्दाव्याजेन प्रियतमं प्रत्यनुरागातिशयं सौभाग्यं च सूचयन्ती सखीमाह
णीसासुकम्पिअपुलइएहिं जाणन्ति णचिउं धण्णा । अम्हारिसीहिँ दिटे पिअम्मि अप्पा वि वीसरिओ ॥ ६१ ॥ [निःश्वासोत्कम्पितपुलकितैर्जानन्ति नर्तितुं धन्याः ।
अस्मादृशीभिदृष्टे प्रिये आत्मापि विस्मृतः ॥] नर्तितुमिह निःश्वासोत्कम्पपुलकितैर्हि जानते धन्याः।
अवलोकितेपि दयिते विस्मृत आत्मापि मादशीभिस्तु ॥ ६१ ॥ नर्तनसमये दयितकरस्पर्शवशात् निःश्वासेन उत्कम्पेन पुलकितेन (पुलकनमेव पुलकितं भावे क्तः) उपलक्षिता या नर्तितुं जानन्ति ता धन्याः । अस्मादृशीभिस्तु दयितस्यावलोकनेपि सति आत्मापि निजशरीरादिकमपि विस्मृतं किं पुनरन्यदित्यर्थः । 'अहमधन्या' इत्यात्मानं निन्दन्त्यपि दयितप्रणयसौभाग्यवत्यहमेवेति स्तुति सूचयतीति व्याजस्तुतिः। पर्यन्ततस्तु 'नर्तनकलामञ्जुला अपि ता न धन्याः' प्रियप्रणयपीयूषपायिन्यहमेव धन्येति व्यतिरेकालंकारो व्यङ्ग्यः । नर्तनप्रकरणाभावे तु नर्तितुमित्यत्र 'दयितसमागमे निःश्वासादिभिरुपलक्षिता या नानाविधान्गात्रविभ्रमान्कर्तुं जानन्ति ता धन्याः' इत्यर्थान्तरसंक्रमितवाच्यो ध्वनिर्बाध्यः, नर्तनस्य स्वार्थे बाधेन शारीरिकविभ्रमार्थे लाक्षणिकत्वात् । ततस्तु व्यतिरेकालंकारध्वनिना सह पूर्वोक्तध्वनेः संसृ. ष्टिर्बोद्धव्येत्यलं साहित्यगहनपद्धत्या । सपत्नीषु त्वं नवयौवनेन लब्धविजयासीति काचित्प्रौढा मुग्धां नायिकामाह
तणुएण वि तणुइजइ खीएण वि खिजए बला इमिणा । मज्झत्थेण वि मज्झेण पुत्ति कहँ तुज्झ पडिवक्खो ॥६२ ॥
[तनुकेनापि तनूयते क्षीणेनापि क्षीयते बलादनेन । __ मध्यस्थेनापि मध्येन पुत्रि कथं तव प्रतिपक्षः ॥] क्षीणेनापि क्षीयत एतेन तनूयतेथ तनुनापि।
कथमिव ते प्रतिपक्षो मध्यस्थेनापि पुत्रि मध्येन ॥ ६२ ॥ हे पुत्रि ते प्रतिपक्षः सपत्नीजनः क्षीणेन अपचयं प्राप्तेनापि मध्यस्थेन वपुर्मध्यभागस्थितेन ते मध्येन ( करणे तृतीया ) कथं क्षीयते अपचीयते । तनुना दुर्बलेनापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org