________________
१८४
काव्यमाला।
निबिडहरितत्वेन तत्सुरतसंकेतस्थानं भविता, ततश्च तत्र भावि सुरतसुखमनुस्मृत्य पामरकरयोः स्वेदरूपसात्त्विकभावोदयो जात इति भावः । 'अथाढकी। काक्षी मृत्स्ना तुवरिका मृत्तालकसुराष्ट्र जा' इत्यमरः । 'आढकी तु तुवर्या स्त्री परिमाणान्तरे त्रिषु' इति च मेदिनी । 'संकल्पमात्रात्सात्त्विकभावा भवन्तीति कापि खवैदग्ध्यं ख्यापयितुं सखीमाह' इति गङ्गाधरः।
कार्पासवृन्तावचयाय समागता सेयं मद्दयितं प्रत्यनुरक्तेति ग्रामणीस्नुषा निजसखीमाह
गहवइसुओच्चिएसु वि फलहीवेण्टेसु उअह वहुआए। मोहं भमइ पुलइओ विलग्गसेअङ्गुली हत्थो ॥ ५९॥ [गृहपतिसुतावचितेष्वपि कर्पासवृन्तेषु पश्यत वध्वाः ।
मोघं भ्रमति पुलकितो विलग्नस्वेदाङ्गुलिहस्तः ॥] गृहपतिसुतोचितेष्वपि पश्यत कार्पासवृन्तेषु।
मोघं भ्रमति पुलकितो लग्नखेदाङ्गुलिः करो वध्वाः॥ ५९॥ गृहपतेः सुतेन मम पत्येति यावत् । एतेन वक्त्र्याः स्नुषात्वसाधनान्नववयस्कत्वं सूच्यते । उचितेष्वपि अवचितेष्वपि फुल्लकार्पासयुक्तेषु वृन्तेषु । पुलकितः विलग्नः खेदो यासु ईदृश्योऽङ्गुलयो यस्मिन्नीदृशश्च । वध्वा हस्तो मोघं भ्रमति, अवचेयकार्पासाभावेपि वल्लभप्रेम्णा भ्रमति, इति यूयं पश्यत । खेदरोमाञ्चौ भ्रमतीत्यनेन सूचितो वेपथुश्चेति सात्त्विकभावा ग्रामणीसुते नायिकाया रतिमनुभावयन्ति । तथा च-किञ्चित्कालार्थमुपागतापि सेयं मद्दयितेऽनुरक्ताभूदिति खपतेः कामनीयत्वम् , परं स च मद्वशीभूत इत्यात्मनः सौभाग्यं च गृहपतिपदस्वारस्यसहकारेण ध्वन्यते ।। ग्रामीणस्य मुग्धतां सूचयन्कश्चन नागरिकताभिमानी सहचरमाह
अजं मोहणसुहिअं मुअत्ति मोत्तू पलाइए हलिए । दरफुडिअवेण्टभारोणआइ हसिअं व फलहीए ॥ ६० ॥ [आर्या मोहनसुखितां मृतेति मुक्त्वा पलायिते हलिके ।
दरस्फुटितवृन्तभारावनतया हसितमिव कार्पास्या ॥] आर्या मोहनसुखितां मृतेति मुक्त्वा पलायिते हलिके।
दरविकचवृन्तभारादवनतया हसितमिव हि कार्पास्या ॥ ६० ॥ आर्यां श्रेष्ठां ग्रामनेतृसुतामित्यर्थः । मोहनेन सुरतेन सुखितां सुरतसुखनिमीलिताक्षीमिति यावत् । मृतेति भयेन मुक्त्वा पलायिते सति । आर्यामित्युक्त्या ग्रामनेतुः सुता कामान्धतया उपभुक्ता, दुर्दैवान्मृता चेति भयातिशयः सूच्यते । अतएव पलायिते इत्युक्तं न तु गते इति । ईषद्विकसितवृन्तभारद्वारा प्रकटित श्वेतवर्णहासा लज्जया नम्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org