________________
५ शतकम् ] संस्कृतगाथासप्तशती ।
कट्टेल्ले तव मन्येऽमुनैव तन्नास्ति यन्न पर्याप्तम् ।।
उपमीयते हि यत्तव दलेन वरकामिनीहस्तः ॥४॥ कङ्केले हे अशोक तव यत्पर्याप्तं न भवेत् तत्किञ्चिन्नास्ति, अपि तु सर्वमेव पर्याप्तम् , इत्यहममुनैव मन्ये यत्तव पल्लवेन वरवर्णिनीहस्त उपमीयते । अधिकगुणशाल्यपि कामिनीहस्तस्त्वत्पल्लवेन सह साम्यमानीयते इत्यनेन उपमानस्य पल्लवस्यापेक्षया उपमेये हस्ते गुणाधिक्यवर्णनाट्यतिरेकः । मन्ये इत्यनेन पर्याप्तगुणानामुत्प्रेक्षणादुत्प्रेक्षा चेति संकरः। वरकामिनीकरे तावन्तो गुणाः सन्ति यैरसौ निरुपमान एव लोके। परमशोकपल्लवास्तच्छायामनुहरन्ति, अत एवाहमशोकं धन्यं मन्ये, इति कामिनीवतिशयबहुमानप्रदर्शनेन शृण्वन्त्या नायिकाया अनुरजनप्रयत्नोभिव्यज्यते । मूलोक्तस्यार्थस्य स्पष्टप्रतिपत्तये अलंकारसंपत्तयेऽत्र मन्ये इति मत्कृतच्छायायामधिकमुपात्तम् । अमुनैवेत्येवकारेण-पल्लवद्वारा कामिनीहस्तोपमालाभमात्रेणैव स्थालीपुलाकन्यायेन मया सर्वे तव पर्याप्ता गुणा अनुमिता इति श्रद्धातिशयो ध्वन्यते । तव तन्नास्ति यन्न पर्याप्तमिति सर्वनामनिर्देशेन तव गुणानाहं शब्दतः प्रकाशयितुं शक्नोमीति गुणानां पर्याप्सतातिशयो व्यज्यते।
मन्दस्नेहं नायकमुत्साहयितुं शृण्वति तस्मिन्नायिकासखी अशोकामन्त्रणव्याजेन सुमधुरमाह
रसिअ विअट्ठ विलासिअ समअण्णअ सच्चअं असोओ सि । वरजुअइचलणकमलाहओ वि जं विअससि सएह्नम् ॥ ५ ॥
[रसिक विदग्ध विलासिन्समयज्ञ सत्यमशोकोऽसि । ___ वरयुवतिचरणकमलाहतोऽपि यद्विकससि सतृष्णम् ॥ ] रसिक विदग्ध विलासिन्सत्यमशोकोसि समयज्ञ ।
वरयुवतिचरणकमलाहतोपि यद्विकससि सतृष्णम् ॥५॥ रसिको रसानुभवशीलः । विदग्धश्चतुरः। समयं दोहदकालं जानातीति समयज्ञः। ध्वन्यर्थपक्षे तु समयं रसिकानामाचारं जानातीति । सतृष्णं सलालसम् । वरयुवतिचरणकमलेनाहतोपि यद्विकासं गच्छसि तेन त्वं सत्यमेव अशोकोसि । आघातेनापि तव न दुःखं प्रत्युत विकास एवेति ततस्तवाऽशोकेति नाम सत्यमस्तीत्यर्थः । पर्यन्ते तु शब्दशक्तिसमुत्थेनानुरणनेन-वैदग्ध्यशालिनो रसिकाः प्रियतमाचरणाऽऽहतिमपि प्राप्य आचारं विदन्तो न कुप्यन्ति, प्रत्युत साभिलाषं विकास लभन्ते । इयं किल विदग्धानां सरणिस्त्वं तु प्रणयादपि तां वञ्चयसीति अहो ते असमयज्ञतेति शृण्वन्तं नायकं प्रति साकूतं ध्वन्यते । 'पूर्वगाथार्थमेव भङ्गयन्तरेणाह' इति गङ्गाधरः । नायिकाचरणघातः प्रसाद एव मन्तव्य इति नायकं शिक्षयितुं कुट्टन्या उक्तिरियमिति केचित् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org