________________
२०८
काव्यमाला ।
'त्वदाहरणसमये वाक्चातुर्येण सर्व संकटमुल्लचितवान् स ते कामुकः' इति नायिका सूचयितुं दूती वामनहरेरुपश्लोकनव्यपदेशेनाह
बलिणो बाआबन्धे चोजं णिउअत्तणं च पअडन्तो। सुरसत्थकआणन्दो वामणरूवो हरी जअइ ॥६॥ [बलेर्वाचाबन्धे आश्चर्य निपुणत्वं च प्रकटयन् ।
सुरसार्थकृतानन्दो वामनरूपो हरिर्जयति ॥] अपि बलिवाचावन्धे नैपुणमाश्चर्यमुन्नयन्प्रकटम् ।
सुरसार्थकृतानन्दो वामनरूपो हरिर्जयति ॥६॥ बलेर्दैत्यराजस्य वाचया वचनेन बन्धे नियमने । वाचेत्यावन्तम् । नैपुण्यमाश्चर्यमपि च प्रकटं यथा स्यात्तथा उन्नयन् प्रकाशयन् । अत एव सुरसार्थस्य देवसमूहस्य जनितानन्दो वामनरूपधारी हरिर्जयति । वानियमनमात्रेण स्वर्गराज्यं बलेराहृतवानेवं किल तन्नैपुण्य मित्यन्यावतारापेक्षया स एव सर्वोत्कर्षेण वर्तत इति वाच्योर्थः । अनुरणनेन तु-बलिनो बलवतो गृहजनस्य वाचया वचनेन निरुत्तरीकरणे नैपुण्यं प्रकटयन् , सुष्ठ रसार्थवद्भिर्वचनैनिताखिलप्रीतिः वामनरूपो न्यग्भावितात्मा अवसरमभिलक्ष्य विनयमुपगत इत्यर्थः । एतादृशो हरिः परदारापहारी स ते कामुको जयतीति ध्वन्यमानोर्थः । अवसरानुसारं मधुरवचनचातुर्येण विनयेन च स निजगौरवं रक्षितवानिति नायिका प्रति निभृतं सूच्यते। 'चोज्जम्' इति चोद्यपदस्याश्चर्यमर्थः । 'चोयं स्यादद्भुते प्रश्ने चोदना तु वाच्यवत्' इति मेदिनी । अत्र गाथायां 'बलेः' इति व्यस्ता छायां कृत्वा तस्य 'दैत्यराजो बलवांश्च' इत्यर्थद्वयोपपादनं गङ्गाधरस्य दुःशकमेव, बलवदर्थकस्य बलिशब्दस्य षष्ठ्यां बलिन इति रूपापत्तेः । बलिन इति छायाकल्पने तु दैत्यार्थानुपपत्तिः । मम तूभयं संगतमिति सहृदयैरालोचनीयम् । अत्र 'दौःसाधिकाभिशस्तस्य जारस्य परिहासकौशलं दूती तत्प्रियामानन्दयितुमाह' इति दुर्घटार्थमिवावतरणं गङ्गाधरटीकायाम् ।
प्रियतमस्यावसानेपि प्रणयं न मुञ्चन्ति कुलललना इति हि नारीणां दृढप्रणयतां प्रतिपादयन्ती काचित् प्रियतमे शृण्वति सखीं प्रत्याह
विजाविजइ जलणो गहवइधूआइ वित्थअसिहो वि । अणुमरणघणालिङ्गणपिअअमसुहसिज्जिरङ्गीए ॥७॥ [निर्वावते ज्वलनो गृहपतिदुहिता विस्तृतशिखोऽपि ।
अनुमरणधनालिङ्गनप्रियतमसुखस्वेदशीताझ्या ॥] निर्वाप्यते हि दहनो गृहपतिसुतयातिविस्तृतशिखोपि । अनुमरणघनालिङ्गितदयितसुखस्वेदशिशिराङ्गया ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org