________________
५ शतकम् ]
संस्कृतगाथासप्तशती।
२०९
___ अतिविस्तृताः शिखा ज्वाला यस्य सः । दहनो दाहकस्वभावोपि ज्वलनोग्निः । अनुमरणसमये घनमालिङ्गितस्य दयितस्य सम्बन्धि यत्सुखं तज्जनितेन खेदेन शिशिरीभूतशरीरया गृहपतिसुतया निर्वाप्यते शान्तीक्रियते । खेदजलेन प्रज्वलितोपि वह्निः शाम्यतीत्यर्थः । प्राकृते पूर्वनिपातानियमात् 'घणालिङ्गणपिअअमसुह' इत्यस्य प्रियतमधनालिङ्गनसुखमित्यर्थयोजनम् । मत्कृतच्छायायां तु न तत्क्लेशः । प्राकृतपदाङ्कानुसरणश्रद्धायां तु आलिङ्गितमिति भावे तेन तत्पूर्तिर्विधेया । आलिङ्गनजातेन खेदोद्गमसात्त्विकभावेन तस्मिन्नपि समये तासामनुरागातिशयो न न्यूनीभवतीति व्यज्यते । तथा च-कुलयुवत्यो क्यमेवं दृढानुरागा इति निजसौभाग्यं बहु मन्यखेति शृण्वन्तं दयितं प्रत्यभिद्योत्यते। एनमेवार्थमुपपतिमनोरञ्जनार्थ प्रकारान्तरेण सखी प्रति काचिदाह
जारमसाणसमुब्भवभूइसुहप्फंससिज्जिरङ्गीए । ण समप्पइ णवकावालिआइ उद्धृलणारम्भो ॥ ८॥ [जारश्मशानसमुद्भवभूतिसुखस्पर्शस्वेदशीलाझ्याः ।
न समाप्यते नवकापालिक्या उद्भूलनारम्भः ॥] उपपतिचितासमुद्भवभूतिसुखस्वेदसलिलसिक्ताङ्गयाः।
अभिनवकापालिक्या उद्धृलनमेव पूर्यते न किल ॥ ८॥ उपपतिचितासमुद्भवाया भूतेर्भस्मनः स्पर्शजनितेन सुखेन जातं यत्स्वेदजलं तेन सिक्तं स्नातमङ्गं यस्याः। अभिनवकापालिक्याः गृहीताभिनवकापालिकव्रताया वियोगिन्याः उद्धलनमेव शरीरे भस्मालेपनमेव न समाप्यते । उद्भूलनसमये उपपतिचिताभस्मनः स्पर्शसुखेन खेदोद्गमो भवति, तच्छोषणाय पुनर्भस्मना विच्छुरयति सा, ततश्च पुनरपि उपपतिचिताभस्मस्पर्शात्स्वेदोद्गमो भवतीत्येवमुद्भूलनावसानमेव न भवतीति भावः । उद्धृलनमेवेत्येवकारेण कापालिकतालम्बनेपि न निर्वाहो यतः प्रारम्भसम्पाचं भस्मधारणमेव न तत्र संपूर्यते किमग्रे संपत्स्यत इति विवशतातिशयेन प्रेमातिरेको व्यज्यते । आरम्भपदाभावेपि तदर्थोत्र प्रतीयत इति ज्ञेयं सुधीभिः । 'जार-श्मशान' पदयोरश्लीलतया संस्कृतबन्धशय्यायां न गुम्फः समुचित इति तत्परिवर्तनं बोध्यम् ।
प्रसवानन्तरं महिलानां प्रणयबन्धनमन्यादृशं भवतीति निदर्शयन्ती काचित्सखीं प्रत्याह
एको पढुअइ थणो बीओ पुलएइ णहमुहालिहिओ। पुत्तस्स पिअअमस्स अ मज्झणिसण्णाएँ घरणीए ॥९॥ [ एकः प्रस्नौति स्तनो द्वितीयः पुलकितो भवति नखमुखालिखितः । पुत्रस्य प्रियतमस्य च मध्यनिषण्णाया गृहिण्याः ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org