________________
काव्यमाला।
प्रस्नौति स्तन एकः परः पुलकितोस्ति नखमुखालिखितः।
पुत्रस्य च प्रियस्य च मध्यगताया हि दयितायाः॥९॥ प्रनीति सुतप्रेम्णा स्तन्यं प्रस्रवति । परो द्वितीयः स्तनः प्रियतमकृतनखालेखनेन रोमाञ्चयुक्तो भवति । सुतं प्रति वात्सल्यस्य प्रियं प्रति चानुरागस्य युगपदुदयेन भावदयसमावेशो बोध्यः । तथा च प्रियसमागममहिम्नैव समवाप्तसुतस्नेहसुखाः सुदृशः प्रसन्नान्तःकरणाः सत्यः प्रियतमे सुबहुलमनुरज्यन्ति, त्वयापि तथैव समनुष्ठेयमिति नायिकां प्रति सख्याभिव्यज्यते । 'तत्तत्कारणसांनिध्यादेकस्मिन्नने के भावा भवन्तीति निदर्शयन्कोपि सहचरमाह' इति गङ्गाधरः । जारं प्रत्यनवसरप्रकटनपरं दूत्या वचनमिदमिति केचित् । बालायां ग्रामनायकतनयायां बद्धसाभिलाषदृष्टिः कश्चन सहचरमाह
एत्ताइचिअ मोहं जणेइ बालत्तणे वि वट्टन्ती। गामणिधूआ विसकन्दलिब वड्डीऑ काहिइ अणत्थम् ॥१०॥
[ एतावत्येव मोहं जनयति बालत्वेऽपि वर्तमाना । ___ ग्रामणीदुहिता विषकन्दलीव वर्धिता करिष्यत्यनर्थम् ॥] एतावत्यपि मोहं जनयति बाल्येपि वर्तमानेयम् । विषकन्दलीव कुर्याद् ग्रामणिदुहिता हि वर्द्धितानर्थम् ॥ १०॥ एतावत्यपि एतावन्मात्रवयस्कैव । अपिरेवार्थे । मोहं जनयति चित्तं मोहयति । अग्रे वर्धिता वृद्धिं गता इयं ग्रामणीदुहिता विषकन्दलीव विषाङ्कुर इवानर्थ कुर्यात् । विषकन्दली पूर्व लध्व्यपि अग्रे यथानर्थ करोति तथेयमपि यौवने कामुकानां विषमविषमशरविवर्धितं वेदनातिशयमुत्पादयेदित्यर्थः । ग्रामणिदुहितेत्यत्र इको ह्रखो ड्य इति ह्रखः पूर्वमप्युक्त एव । यौवने जनिष्यमाणं ग्रामणीसुतायाः शोभातिशयं भावनाद्वाराधुनैवानुमाय बद्धाभिलाषस्यास्य रसिकशिरोमणेरुक्तौ रसाभासता कथंचित्समाधेया । 'ग्रामणीपुत्र्यां -साभिलाषः कोपि प्रहसनमाह' इत्यवतरणमात्रेणैव गङ्गाधरस्तु संकटगङ्गामुल्लचितवान् ।
कामकलाकुशलेन तेन सह कथमिव रात्रौ सुरतमभूदिति रहस्यान्तर्भुक्तया वयस्यया पृष्टा काचिद्धरिनमस्कारापदेशेन सपरिहासमाह---
अपहुप्पन्तं महिमण्डलम्मि णहसंठि चिरं हरिणो । तारापुप्फप्पअरश्चिअं व तइ प णमह ॥११॥ [अप्रभवन्महीमण्डले नभःसंस्थितं चिरं हरेः ।
तारापुष्पप्रकराञ्चितमिव तृतीयं पदं नमत ॥] अप्रभवद्भूमितले हरेनभःसंस्थितं सुचिरम् ।
ताराकुसुमप्रकराञ्चितमिव चरणं तृतीयमानमत ॥ ११ ॥ भूमितले अप्रभवत् असंमात् (शत्रन्तम् )। तारारूपेण पुष्पप्रकरेणाञ्चितम् । हरेत्रिविक्रमस्य । भूतलं पातालं च परिमाय गगनपरिमाणाय नभसि उच्छ्रितं तृतीयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org