________________
५ शतकम् ] संस्कृतगाथासप्तशती।
२११ चरणम् आनमत । पर्यन्ते तु-हरेः परदारापहारिणस्तस्योपपतेः स्कन्धोपरि गत्वा नभःस्थितम् । ऊर्ध्वमुच्छ्रितं तारा-( नेत्रकनीनिका-)-रूपेण पुष्पप्रकरेणाश्चितं तृतीयं चरणमानमत संमानेन बहु मानयतेति व्यङ्ग्योर्थः । तथा च त्रैविक्रमबन्धेन सुरतमभूदिति सख्याः प्रश्नस्योत्तरं ध्वनितमभूत् । त्रैविक्रमबन्धस्तु-"स्त्रियोनिमेकं विनिधाय भूमावन्यं स्वमौलौ, निजपाणियुग्मम् । पृष्ठे समाधाय रमेत भर्ता त्रविक्रमाख्यं करणं तदा स्यात् ॥” इत्यनङ्गरो । सुचिरमित्यनेन बहुकालं यावत्स रमितवानिति तत्सामर्थ्यमभिव्यज्यते।
रात्रेस्तृतीययामं यावज्जागरेण खेदमनुभवन्ती विरहोत्कण्ठितां प्रति खपिहीति सखीभिः प्रोक्ते सा सखीः प्रति तदुत्तरमाह
सुप्पउ तइओ वि गओ जामोत्ति सहीओँ कीस मं भणह । सेहालिआण गन्धो ण देइ सोत्तुं सुअह तुझे ॥ १२॥ [सुप्यतां तृतीयोऽपि गतो याम इति सख्यः किमिति मां भणथ ।
शेफालिकानां गन्धो न ददाति स्वप्तुं स्वपित यूयम् ॥] स्वपिहि तृतीयोपि गतो याम इति हिमांनु किमिति किल भणथ।
शेफालिकासुगन्धः स्वप्नुं न ददाति मे, स्वपित यूयम् ॥ १२॥ शेफालिकानां नीलनिर्गुण्डीनां सुगन्धो मम शयितुं न ददाति, मह्यं शयनावसरं न ददाति । एवं च अर्धरात्रो जातस्तथापि दयितो नायात इति चिन्तोत्कण्ठाभ्यां नायि. कानिष्ठरतेरतिशयो ध्वन्यते । प्रसिद्ध किलार्धरात्रोत्तरं शेफालिकानां विकसनम्"शेफालिकां विदलितामवलोक्य तन्वी, प्राणान्कथंचिदपि धारयितुं प्रभूता । आकर्ण्य संप्रति रुतं चरणायुधानां किं वा भविष्यति न वेद्मि तपखिनी सा ॥" साहित्यदर्पणे। 'शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा' इत्यमरः। एवं निरनुक्रोशमपि तं कथं स्मरसीति सख्या प्रोक्ता विरहोत्कण्ठिता सखीमाह
कहँ सो ण संभरिजइ जो मे तह संठिआई अङ्गाई । णिवत्तिए वि सुरए णिज्झाअइ सुरअरसिओह ॥ १३ ॥ [कथं स न संस्मर्यते यो मम तथासंस्थितान्यङ्गानि ।
निवर्तितेऽपि सुरते निध्यायति सुरतरसिक इव ॥] संस्मर्यते स न कथं तथास्थितान्यङ्गकानि सखि यो मे।
सुरतरसिक इव निर्वर्तितेपि निध्यायति हि सुरते ॥१३॥ सुरते निर्वर्तितेपि परिसमापितेपि सुरतासक्तो यो ममाङ्गकानि तथास्थितानीव सुरतकालिकसंनिवेशयुक्कानीव निध्यायति पश्यति । सुरतसमाप्तावपि मय्यासक्तिवशान्मानसिकभावनया तथासंस्थितानीव सुरतसंलग्नानीव पश्यतीत्यर्थः । तथासंस्थितानी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org