________________
२१२
काव्यमाला |
त्यनेन अनुभवैकमात्र संवेद्योङ्गानां संनिवेशविशेषो ध्वन्यते । एवं च मयि एतावदाहितानुरागः स किल प्रियतमः कथं वा स्मृतिपथे नोदयेदित्याशयः । उपपतिं प्रति काचिदन्यापदेशेन संकेतस्थलं निर्दिशति -
सुक्खन्तबहलकद्दमघम्मविसूरन्तकमठपाठीणम् । दिहं अदिउवं कालेण तलं तडाअस्स ॥ १४ ॥ [ शुष्यद्वहलकर्दम घर्मखिद्यमान कमठपाठीनम् । दृष्टमदृष्टपूर्वं कालेन तलं तडागस्य ॥ ] शुष्यद्वहलित कर्दम धर्मलुठन्मीनकमठपाठीनम् । दृष्टं दृष्टपूर्व कालेन तलं तडागस्य ॥ १४ ॥
शुष्यन् बहलितः कर्दमो यस्मिंस्तत्, घर्मेण ऊष्मणा लुठन्तः परिखिद्यमानाः मीनाः कमठाः पाठीनाश्च यस्मिंस्तच्चेति बहुव्रीहिं कृत्वा कर्दमान्तस्य पाठीनान्तेन सह कर्मधारयः । बहलितेत्यत्र बहल इवाचरित इति आचारक्किबन्तात्कर्तरि क्तः । पाठीनो बृहन्मत्स्यः ‘सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ' इत्यमरः । कालवशाददृष्टपूर्वं तडागस्य तलं दृष्टम् । पूर्व जलाद्याहरणार्थ मासी लोकानां यातायातसंभवः, इदानीं न तद्भयमिति निःशङ्कमागम्यतामित्युपपतिं प्रति ध्वन्यते । पूर्वमतिसमृद्धस्य पश्चात्कालेन दरिद्रतामापन्नस्य कस्यचिदन्यापदेशविधया काचिदनुशोचनं करोत्यनया गाथयेति केचित् । 'अहं तत्र गता त्वं तु नागतः' इति जारं प्रति कस्याश्चिदुक्तिरित्यन्ये । चिररमणार्थ सुरतश्रान्तं कान्तमन्यमनस्कं करोतीति वा ।
निभृतमभिसारे गच्छन्तीं काञ्चित्सचाटुपरिहासमाह काचित्प्रौढाचोरिअर असद्धालुह मा पुत्ति व्भमसु अन्धआरम्मि । अहिअअरं लक्खिजसि तमभरिए दीवसीहव ॥ १५ ॥
[ चौर्यरत श्रद्धाशीले मा पुत्रि भ्रमान्धकारे ।
अधिकतरं लक्ष्यसे तमोभृते दीपशिखेव ॥ ]
मा पुत्रि चौर्यसुरतश्रद्धाशीले भ्रमान्धकारेस्मिन् । दीपशिखेव निबिडे तमसि निकामं निरीक्ष्यसे नूनम् ॥ १५ ॥ चौर्य सुरतश्रद्धालुके ! इति विशेषणेन गृहे तव सुरतसौकर्ये सत्यपि आग्रहेण त्वमभिसारपरासीति नायिकां प्रति सूच्यते । अन्धकारे यथा दीपशिखा तथा त्वमपि स्पष्टतरं संलक्ष्यसे । त्वमात्मानं निगूहितुमन्धकारे प्रयासि परं शरीरलावण्येनान्धकारे द्विगुणं प्रकाशस इत्यर्थः । पुत्रीतिसंबोधनेन - त्वमन्धकारे भूरितरं गुप्ता भूत्वाभिसरसि, परमेतावत्कालं दृष्टबहुव्यतिकराया मम तु पुरस्तादेतद् गोपनमसंभवमेव, परमन्येपि संलक्षयितुमलमित्यात्मगौरवम्, मा भैषीर्नाहं ते रहस्यभेदिनीति पक्षपातश्च ध्वन्यते । 'तमभरिए' इत्यत्र तमोभृते ( प्रदेशे ) इति विशेष्याक्षेप क्लेशो मत्कृतच्छायायामेवमपासित इति सुधीभिरालोच्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org