________________
५ शतकम् ]
संस्कृतगाथासप्तशती ।
इयं संकेतस्थान दाहाद्दुःखितेति निजमार्मिकतां प्रकटयितुं कश्चित्सहचरमाहवाहिता पडिवअणं ण देइ रूसेइ एकमेकस्स | असई कज्रेण विणा पइप्पमाणे णईकच्छे ॥ १६ ॥ [ व्याहृता प्रतिवचनं न ददाति रुष्यत्येकैकस्य | असती कार्येण विना प्रदीप्यमाने नदीकच्छे ॥ ] कुप्यत्येकैकस्य प्रतिवचनं नो ददाति संलपिता । असती कार्येण विना प्रदीप्यमाने नदीकच्छे ॥ १६ ॥
नदीकच्छे नदीतटनिकटवर्तिनि सजलदेशे प्रदीप्यमाने दावाग्निना दह्यमाने । 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः' इत्यमरः । असती कुलटा कार्येण विना आवश्यकतां विनापि । प्रत्येकपुरुषस्य रुष्यति । संकेतस्थानभङ्गादेतस्या इयं दशेत्यहमिङ्गितेनैव ज्ञातवानिति सहचरं प्रत्यभिव्यज्यते । मर्मान्तिकवेदनायास्त्वन्या कथा, परं मनोविनोदनोपाय विघटनाजायमानेन दुःखेन व्याकुलचेतसो जनस्य किञ्चिन्मात्रेणैव विचारलीनताभङ्गे सति क्रोधोदयो भवति, सेयमेव खाभाविकी मानसी दशा गाथयानया सूच्यते । ततश्च प्रत्येकपुरुषं प्रति कोपस्य सूचकं चात्र वचनाऽप्रदानमेवेति कोपोत्तरमेव मद्गाथायां तन्निबन्धनम् । मर्मान्तिकदुःखग्रस्तस्य तु उन्माद - प्रलय - निर्वेदादीनामुदय इति गूढमनुसंधेयम् ।
गुप्तमसतीव्यवहारमाचरन्त्या कयाचिन्निजप्रतिवेश्विनी कुलटेयाक्षिप्ता । तत्प्रत्युत्तरं स्वभावोक्तिविलक्षणरूपेणावतारयति गाथाकारः
२१३
आम असर हा ओसर पइवए ण तुह महलिअं गोत्तम् । किं उण जणस्स जाअव्व चन्दिलं ता ण कामेमो ॥ १७ ॥ [ आम असत्यो वयमपसर पतिव्रते न तव मलिनितं गोत्रम् | किं पुनर्जनस्य जायेव नापितं तावन्न कामयामहे ॥ ]
आम्, कुलटा व्यमपसर पतिव्रते ते न मलिनितं गोत्रम् । न च कामयामहे किल जनस्य जायेव चन्दिलं तु पुनः ॥ १७ ॥ आम् इति सकोपमीर्ष्यापुरस्सरं स्वीकारे । वयं कुलटा एवेति तुष्यतु दुर्जनन्यायेन साधिक्षेपं स्वीकारः । त्वं तु पतिव्रतासि ! इति साकूतमाक्षेपः । अत एव हे पतिव्रते ! अपसर अस्मत्तो दूरे तिष्ठ । तव गोत्रमर्थात् नाम न मलिनितम्, तव नामनि न कश्चित्कलङ्कः ( भवेत् ! ) । वयं कुलटाः अत एव अस्मत्सविधे समागमेन तव गोत्रे मालिन्यं भवेदिति । अथवा तव गोत्रमस्माभिर्न मलिनितम्, अस्माभिरस्माकमेव नामनि कलङ्क आपादितस्तव तु गोत्रं न मलिनितम् ! अत एव त्वमपसरेत्याक्रोशोक्तिः । इदानीम् आक्षिपन्त्या उपर्याक्षेपमाक्षिपति - पुनर्वयं जनस्य सामान्यनरस्य स्त्रीव, अथवा जनसामान्यस्य जायेव वारवधूरिव । चन्दिलं तु नापितं तु न कामयामहे !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org