SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १०८ काव्यमाला | प्रोषितपतिकायाः सखी तत्कान्तागमनत्वरार्थं पथिकद्वारा संदिशतिसच्चं भणामि बालअ णत्थि असकं वसन्तमासस्स । गन्धेण कुरवआणं मणं पि असइत्तणं ण गआ ॥ १९ ॥ [ सत्यं भणामि बालक नास्त्यशक्यं वसन्तमासस्य । गन्धेन कुरबकाणां मनागप्यसतीत्वं न गता ॥ ] सत्यं भणामि बालक न चास्त्यशक्यं वसन्तमासस्य । गन्धेन कुरबकाणामसतीत्वं न हि गता मनागपि सा ॥ १९ ॥ विरह चरित्रानभिज्ञत्वाद् बालकेति संबोधनीय ! अहं सत्यं भणामि | संबोध्यमुद्दिश्य वक्तव्यविषयकथनेनैव सिद्धे पुनः 'सत्यं भणामि इत्युक्त्या अहं बोधनीयं त्वां सत्यं बोधयामि इति लक्ष्यते । तेन च 'अहं तव हितैषिणी अस्मि' इति निजवचनस्य विश्वसनीयत्वं ध्वन्यते । वसन्तमासस्य अशक्यं नास्ति, मनउन्मादकतया शीलखण्डनादिकं वसन्तमासस्य दुष्करं नास्तीत्यर्थः । परं सा कुरबकाणां परिमलेन ईषदपि असतीत्वं न गता । अनेन ' सा त्वय्येव वृतव्रता वर्तते, आश्वसिहि' इति द्योत्यते । परमेतेन सहैव ‘नास्त्यशक्यं वसन्तमासस्य' इत्यनेन नायकहृदयेऽधैर्यमप्युत्पाद्यते । तथा च 'विरहे नारीणां हृदयवेदना न ते विदिता, अत एव यावदियं त्वदागमनबद्धलक्ष्या न खण्डितशीला भवति तावदेनामचिरमुपगच्छ' इति नायकं प्रत्यभिव्यज्यते । नायकमुत्कण्ठयितुं दूती कस्याश्चिदनुरागातिशयमाह - एक्केकभवइवेठणविवरन्तरदिण्णतरलणअणाए । तर बोलते बालअ पञ्जरसउणाइअं तीए ॥ २० ॥ [ एकैकवृतिवेष्टन विवरान्तरदत्ततरलनयनया । त्वयि व्यतिक्रान्ते बालक पञ्जरशकुनायितं तया ॥ ] एकैकक वृतिवेष्टनविवरान्तरदत्ततरललोचनया । व्युत्क्रामति बाल त्वयि पञ्जरशकुनायितं हि तया ॥ २० ॥ अवसरे दृष्टिक्षेपानमिज्ञत्वाद् बालकल्प ! तामतिक्रम्य त्वयि आगच्छति सति । एकैकस्मिन् वृतिवेष्टनस्य विवरान्तरे प्रहितं चञ्चलं नयनं यया एतादृश्या तया पजरबद्धपक्षिवदाचरितम् । पञ्जरबद्धः पक्षी यथा प्रतिविवरं दत्तदृष्टिर्भ्रमति तथा त्वद्दर्शनलालसया तया भ्रान्तमित्यर्थः । एकैकस्मिन्नित्यनेन 'कदाचिदस्मिन्विवरान्तरे दर्शन सौकर्यं स्यादिति प्रत्येकच्छिद्रान्तरतो दर्शनेनोत्कण्ठातिशयो द्योत्यते । प्रेषितलोचनयेति वक्तव्ये दत्तपदेन नयनस्य दर्शने गाढसंसक्तत्वं लक्ष्यते । तथा च प्रियदर्शने परवरां नयनमित्युत्कण्ठातिशयः प्रतीयते । तरल विशेषणेनापि 'नयनमार्गात् प्रियः शीघ्रं नापक्रामेत्' इति दर्शनशीघ्रतया उत्कण्ठातिशयो द्योत्यते । शकुनिदृष्टान्तेन 'त्वद्दर्शनादुत्कण्ठिता सा त्वद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy