________________
३ शतकम् ]
संस्कृतगाथा सप्तशती ।
१०९
न्तिके पक्षीवोड्डीयागच्छेत् परं पक्षिणो यथा पञ्जरबन्धेन पारवश्यं तथा तस्या गृहबन्धनेन पराधीनता' इति नायिकानुरागातिशयो ध्वन्यते । तथा च ' एवं बद्धानुरागा त्वद्दर्शनार्थमतिप्रयतमानापि सा आगमनसमये त्वया न दृष्टा' इति 'बालक' पदसहकारेण नायकस्योत्तेजनं ध्वन्यते ।
तस्या गेहमार्गेण गतोप्यहं तया न दृष्ट इत्युपालभमानं नायकं नायिकादोषपरिहारार्थं दूती आह
ता किं करेउ जइ तं सि तीअ वइवेट्टपेल्लिअथणीए । पाअङ्गुदुद्धक्खित्तणीसहङ्गीअ वि ण दिट्ठो ॥ २१ ॥
[ तत्किं करोतु यदि त्वमसि तया वृतिवेष्टनप्रेरितस्तनया । पादाङ्गुष्टार्धक्षिप्तनिःसहायापि न दृष्टः ॥ ]
तत्किं करोतु चेत्त्वं तया हि वृतिवेष्टनाहितस्तनया | इटोसि यन्न पादाङ्गुष्ठार्द्धक्षिप्तनिः सहाङ्गयापि ॥ २१ ॥ वृतिवेष्टनस्योच्चतया त्वद्दर्शनाय उच्चैर्नयनप्रेषणार्थं पादाङ्गुष्टस्य ( आये ) अर्धभागे क्षिप्तं समर्पितं निःसहम् अङ्गं यया । 'दर्शनोत्कण्ठावशाद्देहस्यापि नानुसंधानमासीत्' इति देहस्याऽनादर सूचनार्थं साऽवहेलं पातनार्थकं ' क्षिप्तं ' पदं प्रयुक्तम् । 'निःसहम्' इत्यनेन 'त्वदुत्कण्ठया पूर्वमेव शरीरमवशमासीदिदानीमङ्गुष्ठाग्रे सर्वशरीरभरसमर्पणस्य क्कासी - त्सामर्थ्यम्' इत्युत्कण्ठातिशयो व्यज्यते । अत एव शरीराग्रसंतोलनार्थं वृतिवेष्टने आहितौ स्तनौ यया । अनेन स्तनयोस्तुङ्गता शरीराप्रस्य च गुरुता सूच्यते । एवं कृतप्रयत्नयापि तया यदि त्वं न दृष्टोसि, तर्हि सा किं करोतु ? त्वद्दर्शनार्थमत्युत्कण्ठिता कृत प्रयत्नापि सा न द्रष्टुमपारयदिति न तस्या दोष इति भावः ।
कस्यचित्प्रवासिनो जायामभिलषन्तं कञ्चन कामुकं तस्या निजनायके दृढानुरागसूचनेनासाध्यतां प्रतिपादयन्ती दूती आह
पिअसंभरणपलोट्टन्तवाहधाराणिवा अभीआए ।
दिज वग्गीवाऍ दीवओ पहिअजाआए ॥ २२ ॥ [ प्रियसंस्मरणप्रलुठद्वाष्पधारानिपातभीतया । दीयते वक्रग्रीवया दीपकः पथिकजायया ॥ ] प्रियसंस्मरणप्रलुठट्टग्जलधारानिपातशङ्कितया । आवक्रितकन्धरया पथिकगृहिण्या प्रदीयते दीपः ॥ २२ ॥
दीपप्रदानोत्तरं प्रियतमसंनिधानसुखं पूर्वमन्वभूवमिति प्रियसंस्मरणेन प्रलुठत् नेत्रयोमध्ये सर्वतः संचरत् यत् दृग्जलमश्रु तस्य धारानिपातशङ्काशालिन्या । ' प्रलुठत्' पदेन दीपदानसमये बाष्प विसर्जनस्यामङ्गलतया तदवरोधनेन बाष्पस्य नेत्राद् बहिरनिष्क्रमणात् नेत्रमध्य एव इतस्ततः संचरणं सूच्यते । 'धारा' पदेन 'बहोः कालादुपचितमश्रुजल
सं. गा. १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org