________________
११०
काव्यमाला |
मतो विवशतया तन्निपाते न बिन्दुरपि तु धारा स्यात्' इति स्मृतिभावविजृम्भणेन प्रियेऽनुरागातिशयो ध्वन्यते । एवं च अश्रुजलं दीपे मां पप्तदिति वक्रीकृतमीवया पथिकगृहिण्या दीपः प्रदीयते । 'गृहिणी' पदेन गृहसंचालनव्यग्रतया, अपवादेन गृहापकीय च परप्रेमवैमुख्यं ध्वन्यते । एवं प्रेयसि दृढबद्धभावा सा नान्यत्र रतिं कुर्यादिति तदसाध्यता उपनायकं प्रत्यभिव्यज्यते । प्रवासे स्त्रिया विप्रलम्भचेष्टासु सेयमुदाहृता स. कण्ठाभरणे ।
स्नेहदैन्यसूचकेन कस्याश्चित्परिवृत्त्यावलोकनेन कमपि कामुकयुवानमनुरञ्जयितुं दूती
आह
तर बोलते बालअ तिस्सा अङ्गाइँ तह णु वलिआई । जह पुट्टिमज्झणिवतन्तवाहधाराओं दीसन्ति ॥ २३ ॥ [ त्वयि व्यतिक्रामति बालक तस्या अङ्गानि तथा नु वलितानि । यथा पृष्ठमध्यनिपतद्वाष्पधारा दृश्यन्ते ॥ ]
व्यतिसरति त्वयि बालक वलितान्यङ्गानि किल तथा तस्याः । मध्येपृष्ठं निपतद्वाष्पकधारा यथा हि दृश्यन्ते ॥ २३ ॥
परप्रेमानभिज्ञत्वाद्वालकल्प ! त्वयि व्यतिक्रामति तामतिक्रम्य त्वयि आगच्छति सति तस्या अङ्गानि त्वद्दर्शनार्थ तथा किल वलितानि परिवृत्तानि यथा भाविना तवाsदर्शनदुःखेन उत्कण्ठितायास्तस्या निपतन्त्यो बाष्पधाराः पृष्टमध्ये विलोक्यन्ते । दृश्यन्त इति वर्तमानार्थकलटा इदानीमप्यश्रुधाराः सन्तीति प्रदर्शनसंरम्भातिशयेनोत्कण्ठातिशयो द्योत्यते । परिवृत्यावलोकनसमये अङ्गवलनेन तन्वयास्तस्या विरहदौर्बल्यं द्योत्यते । धारा इति बहुत्वेन तस्मिन्नेव समये तावद्वाष्पनिपतनाद् वेदनातिशयो व्यज्यते । तथा च 'त्वदर्थमेवमत्युत्कण्ठिता सा त्वं तस्या अनुरागम विजानन्वराकीं तां क्लेशयसीति तामविलम्बितं किं न संभावयसि' इति बालकपदसहकारेण सोपालम्भं नायकप्रोत्साहन - भिव्यज्यते ।
3
कापि प्रियतमविरहस्य दुःसहत्वमन्यापदेशेनाह—
तामज्झिमोचिअ वरं दुजणसुअणेहिँ दोहिँ विण कञ्जम् । जह दिट्ठो तव खलो तहेअ सुअणो अईसन्तो ॥ २४ ॥ [ तन्मध्यम एव वरं दुर्जनसुजनाभ्यां द्वाभ्यामपि न कार्यम् । यथा दृष्टस्तापयति खलस्तथैव सुजनोऽदृश्यमानः ॥ ]
मध्यम एव वरं तन्न हि कार्य सुजन दुर्जनाभ्यां नः ।
दृष्टस्तपति यथा किल खलस्तथाऽदृश्यमान इह सुजनः ॥ २४ ॥ यथा दुर्जनः दृष्टो दर्शनपथमायातस्तापयति तथा सुजनः अदृश्यमानो नेत्रयोरगोचर - स्तापयति । तस्मात् सुजनदुर्जनाभ्यामस्माकं न कार्यम् । मध्यम एव साधारणजन एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org