________________
३ शतकम् ]
संस्कृतगाथासप्तशती।
श्रेष्ठ इत्याशयः । दृष्ट इति भूतकालिकक्तप्रत्ययेन, अदृश्यमान इति वर्तमानार्थकशानचा च 'पूर्णदर्शनेपि दुर्जनो व्यथयति, सज्जनस्य पूर्णाऽदर्शनस्य का कथा वर्तमानमप्यदर्शनं तापयति' इति तापतारतम्यमभिव्यज्यते । तपतीत्यन्तर्भावितण्यर्थः । यथा 'निघृण तपति बलीयः' इति शाकुन्तलम् । तस्य सौजन्यस्मरणेन दुःसहो मे विरह इति नायिकयाभिव्यज्यते। निजवल्लभं साभिलाषमालोकयन्याः कस्याश्चित्कटाक्षनिरीक्षणेनेालुः काचिदाह
अद्धच्छिपेच्छिमा करेहि साहाविरं पलोएहि । सो वि सुदिट्ठो होहिइ तुमं पि मुद्धा कलिजिहिसि ॥ २५ ॥
[अर्धाक्षिप्रेक्षितं मा कुरु स्वाभाविकं प्रलोकय । - सोऽपि सुदृष्टो भविष्यति त्वमपि मुग्धा कलिष्यसे ॥] स्वाभाविक प्रलोकय न कुरुवा क्षिवीक्षितं सुभगे।
स सुदृष्टोपि भविष्यति मुग्धा कलयिष्यसे त्वमपि ॥२५॥ अझैक्षिवीक्षितं कटाक्षनिरीक्षणम् । पूर्णोन्मीलितनेत्राभ्यां विलोकनाप्रियदर्शने आधिक्येन सौविध्यमपि भविष्यति। कटाक्षनिरीक्षणं नाधुनापि जानातीति त्वमपि जनैमुग्धा गणयिष्यसे । सुभगे ! इति संबोधनेन 'प्रियसौभाग्यशालिनी त्वमसीति तु ज्ञातमेवास्माभिः' इति साकूतोक्त्या ईर्ष्याभिव्यज्यते । तदेतदधिकं मच्छायायाम् ।
प्रवासे तिष्ठन्कश्चित्कुलशीलपालिकाया निजदयितायाश्चरितमनुस्मरन् विरहविनोदनेच्छया वयस्यमाह
दिअहं खुडकिआए तीए काऊण गेहवावारम् । गरुए वि मण्णुदुःखे भरिमो पाअन्तसुत्तस्स ॥ २६ ॥ [दिवसं रोषमूकायास्तस्याः कृत्वा गेहव्यापारम् ।
गुरुकेऽपि मन्युदुःखे स्मरामः पादान्तसुप्तस्य ॥] गृहकार्य किल कृत्वा दिवसं तस्या हि रोषमुकायाः।
गुरुकेऽपि मन्युदुःखे स्मरामि पादान्तसुप्तस्य ॥ २६ ॥ समग्रं दिवसमभिव्याप्य गृहव्यापारं कृत्वा । रोषेण मूकायास्तस्याः क्रोधजनितोपतापदुःखे महत्यपि सति । मदनुरागवशाच्छय्यायां मत्पादान्तभागे शयनं स्मरामीत्यर्थः । पादान्तसुप्तस्येति मातुः स्मरतीतिवत्कर्मणः शेषत्वविवक्षया षष्ठी। दिवसे गृहकार्य कृत्वेति वक्तव्ये दिवसमित्यत्यन्तसंयोगेन अनावश्यकेनापि गृहकार्येण दिवससमापनं सूच्यते । तथा च कार्यव्यस्ततामिषात्समग्रदिवसपर्यन्तमभाषणेन कोपातिशयो ध्वनितः। मन्युदु:खमहत्त्वेपि पादान्तशयनेन प्रियं प्रत्युत्कण्ठासूचनाद्दयितेऽनुरागातिशयः, कौलीन्यं च ध्वन्यते । क्रोधवशादेकत्राऽशयनात् 'शय्यान्तसुप्तस्य' इति वक्तव्ये 'पादान्तसुप्तस्य' इत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org