________________
११२
काव्यमाला |
नेन 'चरणेन मदङ्गस्पर्शे सति संजातकामोदयः कान्तो मामनुनयेत्' इत्यभिप्रायादौत्सुक्यस्योदयः, कोपस्य च प्रशम इति भावसन्धिर्ध्वन्यते । स च अजितस्य स्मृतिभावस्याङ्गमिति बोध्यम् । 'खुडकिआ ' रोषमूका ।
अधमवनितासक्त इत्यनुरक्तमपि कंचन धनिकं परिहरन्तीं दुहितरं वेश्यामाता शिक्षानिमित्तमाह-
पाणउडीअ वि जलिऊण हुअवहो जलइ जण्णवाडम्मि । ण हु ते परिहरिअवा विसमदसासंठिआ पुरिसा ॥ २७ ॥ [ पानकुव्यामपि ज्वलित्वा हुतवहो ज्वलति यज्ञवाटेऽपि । न खलु ते परिहर्तव्या विषमदशासंस्थिताः पुरुषाः ॥ ] प्रज्वल्य पानकुट्यां हुतवहनो ज्वलति यज्ञवाटेऽपि । न हि ते परिहर्तव्या विषमदशासंस्थिताः पुरुषाः ॥ २७ ॥
पानकुट्यां मद्यपानस्थाने ( शौण्डिककुट्याम् ) ज्वलित्वा वह्निर्यज्ञस्थानेपि ज्वलति । पवित्रेऽप्यपवित्रे च स्थले जुगुप्सां परिहृत्य समं व्यवहरतीत्यर्थः । एवमेव विषमदशासंस्थिताः स्वानुचितदशामापन्नाः पुरुषा न परिहारमर्हन्ति । अत्र हुतवहदृष्टान्तेन वह्नि यत्र नयन्ति लोकास्तत्रैव स स्वकार्य करोति, एवमेव यादृशोपि कामुक आयातु अस्माभिर्धनहरणं कर्तव्यमेवेति सूच्यते । तथा च अस्मत्प्रयोजनसाधकः स धनिको न त्वयाऽवधीरणीय इत्यभिव्यज्यते । 'पानकुटी चण्डालकुटी' इति गङ्गाधरः ।
स्वस्य संमुखमेव सतीं निजभार्यां बहु मन्यमानमुपनायकं काचिदसती साधि - क्षेपमाह
जं तुज्झ सई जाओ असईओ जं च सुहअ अह्मे वि । ता किं फुट्ट बीअं तुज्झ समाणो जुआ णत्थि ॥ २८ ॥
[ यत्तत्व सती जाया असत्यो यच्च सुभग वयमपि । तत्किं स्फुटतु बीजं तव समानो युवा नास्ति ॥ ]
यत्तव जाया हि सती यच्च सुभग वयमसत्यः स्मः । तत्किं बीजं स्फुटतु त्वया समानो युवा नास्ति ॥ २८ ॥
त्वयि अव्यभिचरितं प्रेम कुर्वाणा यत्तव जाया सती, स्वभर्तारमवधीर्य त्वयि प्रणयं विदधाना यच्च वयं कुलटाः स्मः, हे सुभग ! तत्र बीजं कारणं किं स्फुटतु प्रकटीभवतु ? एतदेव कारणं यत्त्वया समानोऽन्यो युवा नास्ति । हे सुभगेत्यामन्त्रणेन त्वमेतादृश एव सौभाग्यशाली असि ! ! इति साकूतोक्त्या अधिक्षेपोऽभिव्यज्यते । सापि त्वय्यनुरक्ता वयमप्यन्यपरिहारपूर्वकं भवत्येवाऽऽसक्ता अत एव त्वत्सदृशो नान्यः कश्चन जगति युवेति विध्यतीत्यर्थः । तथा च सर्वपरिहारपूर्वकं भवत्येव निहितप्रणय सर्वखां मां प्रत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org