________________
३ शतकम् ]
संस्कृतगाथासप्तशती।
१०७
त्वं तु खलवचने प्रत्ययं कुर्वती मुधैव भां व्यथयसीति भावः । तथा च अश्रुजलस्पर्शादपि रोमाञ्चं वहतो ममानुरागमनुसंधाय न पुनरप्रे खलवचसि विश्वासं करिष्यसीति नायिका प्रत्यभिव्यज्यते । नायकस्य प्रेमदृढीकरणार्थं तस्मिन्नाकर्णयति काचिद्दतीमाह
तं मित्तं काअचं जं किर वसणम्मि देसआलम्मि । आलिहिअभित्तिवाउल्लअं व ण परम्मुहं ठाइ ॥ १७ ॥
[तन्मित्रं कर्तव्यं यत्किल व्यसने देशकालेषु । ___ आलिखितभित्तिपुत्तलकमिव न पराङ्मुखं तिष्ठति ॥] तन्मित्रं कर्तव्यं ययसने चापि देशकालेषु ।
आलिखितभित्तिपुत्तलकमिव न तिष्ठति पराङ्मुखं जातु ॥१७॥ यन्मित्रं व्यसने विपदि, देशेषु दूरदेशान्तरेषु, कालेषु बहुसमयान्तरालेषु यौवनाद्यपगमे इति यावत् । भित्तो चित्रलिखितपुत्तलिकेव जातु कदाचिदपि खतो विमुखं न तिष्टति, ताङ मित्रं कर्तव्यम् । 'वाउल्लअम्' पुत्तलिकति देशी । आलिखितेति कथनेन चेष्टारहितत्वेन प्रियपराधीनता सूच्यते । तथा च यः स्वेच्छया न किमप्याचेष्टितुं शक्नुयात् किन्तु प्रणयपरवशः प्रियजनेच्छयैव किमपि कुर्यादित्यर्थो ध्वन्यते । 'तन्मित्रं युज्यते' इति स्थाने 'कर्तव्यम्' इत्युक्त्या निजप्रयत्नेन मैत्री चेद्वध्यते तर्हि परीक्ष्य ताहशमेव मित्रं कर्तव्यमिति सूच्यते । एवं च मत्प्रयत्नेन संजातसौहृदोयं मत्प्रेयान् न विश्वासं भक्ष्यतीति प्रेमदृढीकरणमभिव्यज्यते । अस्मिन्स्थाने जायमानं वृत्तं मया विदितमिति निजनैपुण्यं सूचयन्कश्चित्सहचरमाह
बहुआइ णइणिउजे पढमुग्गअसीलखण्डणविलक्खम् । उड्डेइ विहंगउलं हा हा पक्खेहिँ व भणन्तम् ॥ १८ ॥ [वध्वा नदी निकुञ्ज प्रथमोद्गतशीलखण्डनविलक्षम् ।
उड्डीयते विहंगकुलं हा हा पक्षैरिव भणत् ॥] वध्वा नदीनिकुञ्ज प्रथमोद्गतशीलखण्डनविलक्षम् ।
भणदिव हा हा पौरुड्डीयत इह विहङ्गकुलम् ॥१८॥ वध्वाः नवतरुण्याः प्रथममेव संजातेन शीलखण्डनेन चारित्र्यभञ्जेन विलक्षं सल, जम् । अत एव पक्षैः 'हा हा' इति शब्दं कुर्वदिव इह नदीनिकुञ्ज पक्षिकुलम् उड्डीयते । खतो जायमानस्य हा हेत्याकारकपक्षरवस्य शीलखण्डनवैलक्ष्यं हेतुरुत्प्रेक्ष्यते। तथा च निभृतनदी निकुळे रहोविहितमपि वधूव्यवतितं पक्षिणोऽप्यविदन् किमहमितिवेदीत्यात्मनो विज्ञत्वं द्योत्यते । वधूपदेन गुरुजनसत्तास्मरणात् गुरुजनपरवशाया अपि ताइक्साहसं कठिनमिति व्यज्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org