________________
१०६
काव्यमाला। पत्तिअ ण पत्तिअन्ती जइ तुज्झ इमे ण मज्झ रुअईए । पुट्ठीअ बाहविन्दू पुलउब्भेएण भिजन्ता ॥ १६ ॥
[प्रतीहि न प्रतीयन्ती यदि तवेमे न मम रोदनशीलायाः। __ पृष्ठस्य बाष्पबिन्दवः पुलको देन भिद्यमानाः ॥] न प्रतियती प्रतीहि प्ररुदत्या बाष्पविन्दवो यदि ते ।
एते हि भिद्यमाना न पृष्ठपुलकोद्गमेन मम ॥१६॥ खलवचनप्रत्ययेन मय्यविश्वासाद् रुदत्याः तव एते बाष्पबिन्दवः । एते इत्यनेन खपृष्ठे प्रत्यक्षं बाष्पबिन्दुप्रदर्शनं सूचितम् । तथा च नाहं त्वां मद्वचनादेव विश्वास कर्तुमनुरुन्धे, प्रत्यक्षं ते मम प्रणयप्रमाणमिति ध्वन्यते । मम पृष्टस्य पुलकोद्गमेन रोमाचोद्मेन यदि न भिद्यमाना न चूर्णीक्रियमाणा भवेयुस्तर्हि न प्रतियती शपथशतैः शोधितापराधेपि मयि प्रत्ययं न कुर्वन्ती त्वं खलवचने प्रतीहि पुनर्विश्वासं कुरु । 'पुनः प्रतीहि' इति सशिरश्चालनं काकूक्त्या प्रोच्यते, तथा च सरलोक्तौ अग्रे खलवचसि न विश्वासः कर्तव्य इत्यर्थः । अयमाशयः-तवाश्रुबिन्दुभिरपि मम पृष्ठे पुलकोद्गमो जातः । प्रत्यक्षं ममैतत्प्रेमनिदर्शनं पश्यन्त्यपि मयि प्रत्ययमकुर्वाणा त्वं खलवचने प्रत्ययं कुरु । (काकूक्तिः)। अर्थात् एवं प्रणयशालिनि मयि अविश्वासं कृत्वा खलवचसि न भूयो विश्वासः कर्तव्य इति । पततां बाष्पबिन्दूनां पृष्ठपुलकेन चूर्ण नोक्त्या रोमाञ्चस्य सुदृढता सूच्यते । तेनाश्रुबिन्दुभिरप्येवं धनः पुलकोद्गमो भवति किं पुनस्त्वत्स्पर्शादिनेति प्रेमा. तिशयो द्योत्यते । 'भिद्यमाना न भवेयुः' इति वर्तमानार्थ सूचयता शानचा 'अधुनापि बाष्पविन्दवो मम पुलकोद्मेन भिधमानाः सन्ति'इति प्रत्यक्षप्रदर्शनसंरम्भेण नायकस्य प्रेमाध्यवसायातिशयः प्रतीयते । ___ अत्र गङ्गाधरस्तु 'रोदनशीलायास्तव बाष्पबिन्दवो मम पृष्टपुलकोद्मेन भिद्यमाना भिन्ना यदि नाभविष्यन् , तदा त्वं न प्रतीयन्ती प्रत्ययं नाकरिष्य एवेत्यर्थः' इत्याह । 'पत्तिअ ण पत्तिअन्ती'इत्यनेन कथमयमर्थः? प्रतीयन्तीतिपदस्य प्रत्ययं नाकरिष्य एवेति कथमर्थो जात इति तु विचारणीयमेव । किञ्च प्रतीयन्तीत्यपि च्युतसंस्कृति । एवमनक्षरं जल्पन् गङ्गाधरोऽत्रोपेक्षणीय एव । यदि तु स्यात्तत्रापि किञ्चिन्मूलमित्याग्रहस्तर्हि तत्पदाङ्कानुसारं व्याकरणस्खलितं परिहृत्यैवं छाया व्याख्यानं च स्यात्
भूयः प्रतीहि भामिनि न प्रत्यैप्यस्त्वमश्रुपृषतास्ते ।
यद्यभविष्यन् भिन्ना न पृष्ठपुलकोद्गमेन मम ॥१६॥ हे प्रणयकोपशीले! पुनः प्रतीहि ! सशिरश्चालनं काकूतया 'खलवचने पुनः प्रलयं कुरु !' सरलोक्तौ 'प्रत्ययो न कर्तव्यः' इत्यर्थः । रुदत्यातव बाष्पबिन्दवो यदि मत्पृष्ठस्य पुलकोद्भेदेन रोमाञ्चोद्गमेन न भिन्ना अभविष्यन् तदा त्वं न प्रत्यैष्यः मयि प्रत्ययं नाकरिष्य एव । तवाश्रुजलस्पर्शादपि मम पृष्ठे रोमाञ्चो जातः, त्वत्स्पर्शे तु का कथा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org