________________
३ शतकम् ]
संस्कृतगाथासप्तशती ।
१०५
सुरतसमयसंघटितस्य तत्प्रणयचुम्बनस्य तु त्रिषु लोकेष्वपि साम्यं न प्राप्नुम इत्यनुपममेवेति गाथाकर्तुराकूतम् ।
प्रयत्नशतानुमतामपि काञ्चन नायिकां विमृश्यकारितया नानुपगच्छन्तं नायकमुत्तेजयितुं दूत्याह -
उप्पण्णत्थे कजे अइचिन्तन्तो गुणागुणे तम्मि । चिरआलमन्दपेच्छित्तणेण पुरिसो हणइ कजम् ॥ १४ ॥ [ उत्पन्नार्थे कार्येऽतिचिन्तयन्गुणागुणौ तस्मिन् । चिरकालमन्दप्रेक्षित्वेन पुरुषो हन्ति कार्यम् ॥ ] उत्पन्नार्थे कार्ये गुणागुणावतिविचिन्तयंस्तस्मिन् । पुरुषो विहन्ति कार्य चिरकालसुमन्दवीक्षितया ॥ १४ ॥
कार्ये उत्पन्नार्थे सति । उत्पन्नः सिद्धः अर्थः अभिलषितपदार्थो यत्र तस्मिन्, कार्ये फलाभिमुखे सतीति यावत् । तस्मिन्कार्ये गुणदोषयोरावश्यकतोऽधिकं विचारं कुर्वन्पुरुषः, चिरकालं मन्दप्रेक्षितया नीतिमार्गेण प्रतिक्षणमपायशङ्कित्वेन निजकार्य विहन्तीत्यर्थः । त्वत्प्रार्थनया तामनुकूलयन्त्या मया कार्यं साधितमिदानीं त्वं स्वयमेव विलम्बनेन विहंसि । तत्कृतं विचारेण | साधय समीहितमिति दूतीकृतं नायकप्रोत्साहनमभिव्यज्यते । निजगाढानुरागप्रदर्शनेन प्रणयकुपितं नायकमनुनयन्ती काचित्सचातुर्यमाह -
वालअ तुमाहि अहिअं णिअअं विअ वल्लहं महं जीअम् । तं तह विणा ण होइ ति तेण कुविअं पसाएमि ॥ १५ ॥ [ बालक त्वत्तोऽधिकं निजकमेव वल्लभं मम जीवितम् । तवया विना न भवतीति तेन कुपितं प्रसादयामि ॥ ] बालक भवतोप्यधिकं मम जीवितमेव वल्लभं निजकम् । तत्त्वां विना न भवतीति तेन कुपितं प्रसादयामि त्वाम् ॥ १५ ॥ प्रणयपरिणामानभिज्ञत्वेन बालकेति व्यपदेशार्ह ! त्वत्तोप्यधिकं मम स्वीयं जीवनमेव प्रियम् । तज्जीवितं त्वया विना न भवतीति कारणेन कुपितं त्वां प्रसादयामि । त्वां विना जीवितुमेव न शक्नोमीति व्यङ्ग्यस्य अनया भन्या कथनेन पर्यायोक्तमलङ्कारः । अनेन च 'त्वया सह निबद्ध्यमानप्राणायाः कीदृशो मे प्रेमबन्धस्त्वं तु तमपि यथावन्न वेत्सि' इति बालकपदसहकारेण द्योत्यते ।
प्रथमं कुपितां ततश्चाद्भक्ति-चरणप्रणामादिभिः प्रसन्नां ससान्त्वनदाक्षिण्येन च व्यपगमितपूर्व संशयाम् अत एव 'मिथ्या खलवचनदूषितचित्तया मया खेदितोसि' इति वदन्तीं प्रियां सशिरश्चालन काकूक्त्या भूयः खलवचने प्रतीहीति विधिमुखेन युक्त्या निषेधयन्नायक आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org