________________
१०४
काव्यमाला।
भवति । काञ्चीनिर्माणसमये मुहुरग्नौ मुहुर्जले प्रवेशस्य फलं कनकदोरकोऽनुभवतीत्यर्थः । किमहमप्येवंविधसौभाग्यभाकदाचन भविष्यामीत्यात्माभिलाषस्ता प्रति ध्वन्यते । शृण्वन्तं कामुकं प्ररोचयितुं दूती नायिकायाः सौभाग्यातिशयमाह
जो जस्स विहवसारो तं सो देइ ति किं स्थ अच्छेरम् । अणहोन्तं पि खु दिण्णं दोहग्गं तइ सवत्तीणम् ॥ १२ ॥
[यो यस्य विभवसारस्तं स ददातीति किमत्राश्चर्यम् । ___ अभवदपि खलु दत्तं दौर्भाग्यं त्वया सपत्नीनाम् ॥] यो यस्य विभवसारस्तं स ददातीति किं विहाश्चर्यम् ।
चित्रमभवदपि दत्तं दौर्भाग्यं तु त्वया सपत्नीनाम् ॥ १२॥ विभवसारो धनसंग्रहः । प्रियप्रेमातिशयसौभाग्यशालिन्या त्वया अभवदपि अवर्त. मानमपि दौर्भाग्यं ( प्रियप्रणयवञ्चितता) सपत्नीनां दत्तमिति तु सत्यमाश्चर्यम् । प्रियप्राणवल्लभायास्तव सविधदेशमपि दौर्भाग्यं न स्पृशति पुनस्त्वया तत्कथं सपत्नीभ्यो दत्तमिति भावः । अनेन विरोधालङ्कारेण 'यासां सपत्नीनां पूर्व समधिकप्रियप्रणयशालितासीप्रियतमं निजवशमानयन्त्या त्वयैव तासां विरुद्धमपि दौर्भाग्यं घटितमित्यहो ते गुणला. वण्यादिमहिमा' इति वस्तु ध्वन्यते। अभवदपि दौर्भाग्यं त्वया दत्तमित्यक्षरैः 'बहुवलभस्य दयितस्य नवागतया कयाचिदपि वल्लभया रूपगुणशालिनीनां पूर्वसपत्नीनां दौर्भाग्य न जनितं त्वया तत् अभवदपि अजायमानमपि संपादितम्' इत्यर्थोपि स्फुटीभवति । अनेन सर्वेण ‘एवंविधसौभाग्यशालिन्यपि सुन्दरी भवदर्थे मया संसाध्यते, पश्य ते सौभाग्यम् ।' इति शृण्वन्तं कामुकं प्रति प्ररोचना ध्वन्यते ।
प्रवासे तिष्ठन्कश्चित्प्रियतमासमागमसुखानुस्मरणेनोत्कण्ठां विनोदयितुमात्मसुहृदमाह
चन्दसरिसं मुहं से सरिसो अमअस्स मुहरसो तिस्सा । सकअग्गहरहसुजलचुम्बण कस्स सरिसं से ॥ १३ ॥ [चन्द्रसदृशं मुखं तस्याः सदृशोऽमृतस्य मुखरसस्तस्याः ।
सकचग्रहरभसोज्वलचुम्बनकं कस्य सदृशं तस्याः ॥] चन्द्रसमं तद्वदनं सदृशो मृतस्य मुखरसस्तस्याः।
सकचग्रहरभसोज्वलचुम्बनामेह कस्य संनिभ तस्याः ॥१३॥ मुखरसः अधररसः । निधुवनसमये सकचग्रहं रभसोज्वलं च यच्चुम्बनम् , सप्रेम केशग्रहणपूर्वकं कामवेगसरभसतया कमनीयतमं च यत्तस्याश्चम्बनं तत्कस्य सदृशं, न कस्यापीत्यर्थः । सुरतसामयिकं यत्तस्याश्चुम्बनं तदनुपममित्याशयः । तन्मुखस्याधररसस्य चास्मिल्लोके तुलामलभमाना दिव्याभ्यां चन्द्रामृताभ्यां तौ तुलयामः कथंचित् , पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org