________________
१०३
३ शतकम् ] संस्कृतगाथासप्तशती। परितोषकर तस्याः सलजावलोकितम्' इति मार्मिकता सूचयति । स्वकीयैव चात्र नायिका। गङ्गाधरटीकायां तु-"पूर्वमकृतस्वीकारायाः पश्चाचिरप्रार्थनया स्वीकारं कृतवत्याः प्रथमसमागम एव नायकगुणरञ्जितायाः प्रथमाऽस्वीकारजनितविलक्षं वदनमालोक्य निजगुणगर्वितो नायकः सहचरमाह" इत्यवतरणम् । ___ काचिदनुशयाना मदनशरान्प्रस्तुवती सखीमनुनयावधीरणात्परावृत्तस्य प्रियतमस्य साभिलाषमवलोकितमेवमाह
जे समुहागअबोलन्तवलिअपिअपेसिअच्छिविच्छोहा । अम्हं ते मअणसरा जणस्स जे होन्ति ते होन्तु ॥ १० ॥ [ये संमुखागतव्यतिक्रान्तवलितप्रियप्रेषिताक्षिविक्षोभाः।
अस्माकं ते मदनशरा जनस्य ये भवन्ति ते भवन्तु ॥] येभिमुखागतविचलद्वलितप्रिययोजिताक्षिविक्षोभाः।
तेऽस्माकं स्मरविशिखा जनस्य ये सन्ति ते सन्तु ॥ १० ॥ अनुनयार्थ संमुखागतेन पुनस्तदवधीरणया व्यतिक्रम्य चलता । मम विमुखनिवर्त. नेन कदाचिद्विगतमाना स्यादित्युत्कण्ठावशाद्विवलितेन परिवृत्तेन प्रियेण योजिताः प्रेषिता ये अक्षिविक्षोभाः, त एवास्माकं मदनशराः। जनस्य अन्यजनस्य ये भवन्ति ते भवन्तु । मन्मथशरा यथा मानसमुन्मथयन्ति तथा तादृगवस्थप्रियतमावलोकितान्यपि मे मनसि उत्कण्ठामुत्पादयन्तीत्याशयः । 'अपि सत्यं कुसुममया वाणा मन्मथस्येति सख्या पृष्टा सखी सवैदग्ध्यमाह' इति गङ्गाधरावतरणम् । 'बोलन्त' इति शत्रन्तस्य व्यतिक्रान्तेति च्छाया तु न मनोरमा ।
श्रोणितटलम्बितकनकदामशालिनी काञ्चन नितम्बिनीमवलोक्य कनकसूत्रवर्णनच्छलेन निजाभिलाषमेवमाह कश्चित्सहृदयः
इअरो जणो ण पावइ तुह जघणारुहणसंगमसुहेल्लिम् । अणुहवइ कणअडोरो हुअवहवरुणाण माहप्पम् ॥ ११ ॥ [इतरो जनो न प्राप्नोति तव जघनारोहणसंगमसुखकेलिम् ।
अनुभवति कनकदोरो हुतवहवरुणयोर्माहात्म्यम् ॥] इतरो जनो न लभते तव जघनारोहसङ्गसुखकेलिम् ।
अनुभवति कनकदोरो वह्निवरुणयोर्हि माहात्म्यम् ॥ ११ ॥ तव जघनारोहणपूर्वकेण संगमेन या सुखसरसा केलिस्ताम् इतरो देवताप्रसादशून्यः अग्निपानीयाख्य-(श्यामशबलाख्य-)-व्रतरहितो वा जनो न प्राप्नोति । यत्र पूर्वमग्नौ कठिनं संतप्य जले प्रविश्यत एवंविधकठिनव्रतधारिणमन्तरा तव जघनारोहपूर्वकं सुर. तसुखं न कस्यचित्सुलभमिति भावः । हुतवहवरुणयोर्दैवयोमहिमानं कनकसूत्रमनु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org