________________
१०२
काव्यमाला ।
मानार्थाभिधायिना शतृप्रत्ययेन 'चित्रितम्' इति भूतार्थवाचकेन तप्रत्ययेन च 'गणनायाः पूरणं तु न जातं परं भित्तिः सर्वापि रेखाभिः पूरिता' इति नायिकाचेष्टितसूचनेन प्रियविरहे क्षणक्षणस्य बहुदिवसगमनवत् समधिकवेदनादायित्वमभिव्यज्यते । प्रतिदिनमेकां रेखां प्रदाय गणयन्त्या तया दिनार्द्ध एव बहुदिनव्यत्यये सत्यनुभवनीयं विरहदुःखमनुभूतमित्येवकारसहकारेणातिशयोक्तिव॑न्यते । तथा च दिनार्द्ध एव एतावद्विरहवैक्लव्यमनुभवन्त्या अस्याः का वाऽग्रे दशा भवेदिति त्वयैव विचारणीयमिति नायक प्रत्यभिव्यज्यते । 'कुड्यं रेखाभिः पूरितम्' इति वक्तव्ये चित्रितमित्युक्त्या सरणिबद्धा रेखाः प्रदाय भित्तिपूरणे सति पुनरवकाशानुसारं नीचैरुपरि वा रेखाप्रदानेन चित्राकारता सूच्यते, एतेन भित्तौ बहुरेखाविलेखनेन विरहक्लेशातिशयो ध्वनितः । एकस्मिन्दिन एव 'अद्य गतः अद्य गतः' बहुदिवसज्ञानेन नायिकायाः प्रियानुस्मरणजन्यो मोहातिशयोपि न विस्मार्यः पाठकैः । रेखाभिश्चित्रितं कुड्यमित्यनेन सा कुड्याभिमुखं मुखं विधाय स्थितेति कार्यान्तरपरिहारेण प्रियचिन्तैकतानतया प्रियप्रेमातिशयो ध्वन्यत इत्यहो गाथाकतुरनन्यसाधारणो निःसीमार्थगुम्फनमहिमा ।
प्रथमसमागमे समुपलब्धात्सुरतसुखादपि समधिकसुखकरं भवति व्यतीतप्रथमदिनघटनास्मरणेन परस्मिन्दिवसे नायिकायाः सलजमधुरमवलोकितमित्यात्मनः सहृदयतां सूचयन्नायकः प्रियसुहृदमाह
ण वि तह पढमसमागमसुरअसुहे पाविएवि परिओसो । जह वीअदिअहसविलक्खलक्खिए वअणकमलम्मि ॥९॥ [नापि तथा प्रथमसमागमसुरतसुखे प्राप्तेऽपि परितोषः ।
यथा द्वितीयदिवससविलक्षलक्षिते वदनकमले ॥] न तथा प्रथमसमागमसुरतसुखाऽऽसादनेपि परितोषः।
वदने द्वितीयवासरसविलक्षनिरीक्षिते हि यथा ॥ ९॥ प्रथमसमागमे यत्सुरतसुखं तस्य प्राप्तावपि तादृक् परितोषो न, यादृक् द्वितीयदिवसे सविलक्षं (रात्रिघटनास्मरणेन सलजम् ) लक्षितम् अवलोकनं यस्मिन्नीदृशे वदनकमले भवति । तादृशवदनकमलस्य विषय इति वैषयिकसप्तमी सेयम् । यदि तु प्राकृतपदाङ्कानुसरणाग्रहस्तर्हि-"सुरतसुखे प्रापितेपि परितोषः" इति रामो राज्यमचीकरदितिवत्स्वार्थणिजन्तघटितं पठनीयम् । एवं सति 'सुरतसुखे प्राप्तेपि तथा न परितोषो यथा सलजविलोकिते वदने प्राप्त इत्यर्थः स्यात् । प्रथमसमागमे लज्जासाध्वससौकुमार्यादिभिर्न सुकरः सुरतसुखलाभ इति दुर्लभतमे प्रथमसमागमसुरतसुखे प्राप्तेपीत्यत्र अपिपदेन ध्वन्यते । तथा च प्रथमसमागमे सुचिरयत्नशतैः प्राप्तं स्याद्यथाकथंचित्सुरतं केनचिन्न तु अवधीरण-जघनाकुश्चनादिकाठिन्येन सुरतसुखमुपलब्धं भवेत् , परं मया निजदाक्षिण्यगुणेन प्रथमसमागम एव सुरतसुखमुपलब्धमित्यात्मनः सौभाग्यं ध्वनयन् 'तादृशसुखादपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org