________________
३ शतकम् ]
संस्कृतगाथासप्तशती।
धिदिनपूरणेपि तस्मिन्ननागच्छति इयं प्राणान् जह्यादिति शङ्कया अवधिदिनानागमनार्थ सखीभिर्द्विका रेखा अलक्षितं प्रोञ्छचन्ते । यदि तु नियतसमये आगच्छेत्तर्हि एतस्या दृष्टौ अवधिदिनात्पूर्वमेवागमनात्सविशेषानन्द इत्याशयः। अवधिदिनं संप्रति कियत्संनिहितमेतद्धि प्रतिक्षणं संमुखे तिष्टेदित्युत्कण्ठाविनोदः 'कुज्यविलिखित' पदेन सूच्यते । एतेन नायिकायाः समधिकौत्कण्ठ्यमभिव्यञ्जितम् । एवं चावधिदिनपूरणे सति न यावदियं प्राणान् जह्यात्तावत्त्वरितमेव भवता सेयं संभावनीयेति तद्वल्लभायाभिव्यज्यते । ___ चाटूक्तिभिः प्रियापरितोषणेन निजाभिलाषं साधयितुकामः कामुकश्चन्द्रमालोक्यैवमाह
तुह मुहसारिच्छं ण लहइ त्ति संपुण्णमण्डलो विहिणा। अण्णम व घडइउं पुणो वि खण्डिजइ मिअङ्को ॥७॥ [तव मुखसादृश्यं न लभत इति संपूर्णमण्डलो विधिना ।
अन्यमयमिव घटयितुं पुनरपि खण्ड्यते मृगाङ्कः ॥] तव मुखसादृश्यं नो लभत इति हि पूर्णमण्डलो विधिना ।
घटयितुमिहान्यमयमिव पुनरपि परिखण्ड्यते शशभृत् ॥ ७ ॥ अन्यमयम् अन्यप्रकार घटयितुमिव निर्मातुमिव । शशभृत् चन्द्रो विधिना विधात्रा पुनरपि पूर्णमण्डलत्वेपि परिखण्ड्यते एकठ्यादिकलाक्रमेण हीनः क्रियते । अन्यप्रकार. रचनार्थम् एकामेकां कलां न्यूनीकृत्य 'मुखसदृशं जातं न वा' इति मुहुर्मुहुर्निजनिर्माणनिरीक्षणसंरम्भं विधेय॑ञ्जयत्-परित एकैककलाखण्डनक्रमसूचकं परिखण्ड्यत इति परिपदं मत्कृतच्छायायामुपात्तम् । अनया हेतूत्प्रेक्षया चन्द्रमसो मुहुर्मण्डलपूरणं मुहुः खण्डनं चेति व्यतिकरस्य कल्पान्तं यावदसमाप्त्या 'तव मुखसादृश्यं चन्द्रः कल्पान्तपर्यन्तमपि न लप्स्यते' इति मुखशोभातिशयो मधुरमभिव्यज्यते ।
देशान्तरप्रवासाय कृतप्रस्थानस्य गेहान्तरे स्थितस्य नायकस्य 'त्वद्गमने मत्सख्याः का दशा भाविनी' इति प्रदर्शनेन गमनं निरुन्धती नायिकासखी तदृत्तान्तमाह
अजं गओत्ति अजं गओत्ति अजं गओत्ति गणरीए । पढम विअ दिअहद्धे कुड्डो रेहाहिँ चित्तलिओ ॥ ८॥ [अद्य गत इत्यद्य गत इत्यद्य गत इति गणनशीलया ।
प्रथम एव दिवसाधं कुड्यं रेखाभिश्चित्रितम् ॥] अद्य गतोऽद्य गतो बत सोऽद्य गतश्चेति गणयन्त्या।
प्रथमे दिनार्द्ध एव हि रेखाभिश्चित्रितं कुड्यम् ॥ ८॥ सः 'अद्य गतः, अद्य गतः' इति कृत्वा, एकदिनार्थमेकां रेखां विलिख्य गणयन्त्या अनया प्रथमे दिनार्द्ध एव रेखामिहभित्तिश्चित्रितेति भावः । अत्र 'गणयन्त्या' इति वर्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org