________________
१००
काव्यमाला |
शयः । आदर्शदृष्टान्तेन प्रियहृदयस्य बहिश्चाकचक्यशालिता काठिन्यं चाभिव्यज्यते । तथा च दूरत एव स स्निग्ध इव प्रतीयते नान्तस्तस्यानुरागः । दुःखं च द्वितीयहृदयान्तःसंक्रमणं विना न कारुण्यमुत्पादयेदिति ध्वनितम् |
प्रवासाय कृतोद्यमं नायकं निजसख्या भाविनीं विरहवेदनामन्यवृत्तान्त प्रदर्शननैपुन सूचयन्ती सखी पथिकगृहिणीवृत्तान्तमवतारयति -
पासाङ्की काओ णेच्छदि दिण्णं पि पहिअघरणीए । ओअन्तकरअलोगलिअवलअमज्झट्ठिअं पिण्डम् ॥ ५ ॥
[ पाशाशङ्की काको नेच्छति दत्तमपि पथिकगृहिण्या | अवनतकरतलावगलितवलयमध्यस्थितं पिण्डम् ॥ ] पाशाशङ्की काको नेच्छति दत्तमपि पथिकगेहिन्या । अवनतकरतलविगलितवलयकमध्यस्थितं पिण्डम् ॥ ५ ॥
पथिकगृहिण्या दत्तमपि, पिण्डाssवर्जनार्थमवनतात् अधोमुखीकृतात्करतलाद्विगलितस्य वलयस्य मध्यस्थितम् । विरहवेदनया एतावत्कार्यं यत्कङ्कणोपि कराद्विगलतीति भावः । ओदनपिण्डं काकः पाशशङ्कया नेच्छतीत्यर्थः । अत्र गेहिनीपदेन प्रियतमचि - न्तया सहैव गृहभारसंचालन क्लिष्टतया विरहस्य सुभृशोत्पीडकत्वं सूच्यते । तथा च विरहकृशायाः शकुनलाभाशया काकाय बलिमुपहरन्त्याः सेयं पथिकगेहिन्या दशा, तादृश मा मे प्रियसख्याः करिष्यसीति नायकं प्रत्यभिव्यज्यते । “ प्रयत्नसाधितामपि युवतिं विमृश्यकारितया नोपगच्छन्तं नायकमुत्साहयितुं दूती सोपालम्भमन्यापदेशेनाहइत्यवतार्य पाशशङ्कया पिण्डं यथा काको नेच्छति तथा त्वमपि दीयमानामप्येनां भयशया परिहरसि" इति गङ्गाधरटीका ।
प्रोषितपतिकायाः सखी तत्प्रियतमाय त्वरितमागमनमभिसूचयन्ती तदन्तिकगामिनं पथिकमाह-
ओहिदिअहागमा संकिरीहिँ सहिआहिं कुड्डुलिहिआओ । दोतिण्णि तहिं विअ चोरिआऍ रेहा पुसिञ्जन्ति ॥ ६ ॥ [ अवधिदिवसागमाशङ्किनीभिः सखीभिः कुड्य लिखिताः । द्वित्रास्तत्रैव चोरिकया रेखाः प्रोच्छ्यन्ते ॥ ]
अवधि दिनागमशङ्काकुलाभिरिह कुड्यविलिखिता रेखाः । आलीभिः प्रोञ्छ्यन्ते द्वित्रास्तत्रैव चोरिकया ॥ ६ ॥ प्रियतमाऽऽगमनस्यावधिदिनं मागच्छतु इति शङ्कायुक्ताभिः सखीभिर्भित्तिलिखिता दिनगणनारेखाः चोरिकया चौर्येण तत्प्रच्छन्नमिति यावत् । द्वित्राः प्रोञ्छयन्ते उन्मार्ण्यन्ते अपनीयन्ते । अवधिदिनगणनार्थं नायिकया प्रत्यहं भित्तौ रेखाः कृताः । अव
Jain Education International
---
For Private & Personal Use Only
www.jainelibrary.org