________________
९९
३ शतकम् ] संस्कृतगाथासप्तशती। निरवलम्बनं भ्राम्यदित्यर्थः । नाहं दूत्यादिष्वपि रहस्यं विश्वसिमि । स्वयं हृदयमेव मे तावदान्तरसंतर्पकं कान्तमन्वेक्ष्यतीति आत्मनो रहस्यगोपनयोग्यतया विश्वसनीयता सूचयति । अयि हृदय ! एवं कुर्वत् कदापि भङ्खयसे भग्नं भविष्यसि । कदापीत्यपिशब्दः संभावनायाम् । सहसैवासुलभं कान्तजनमनन्यसाहाय्येनान्विच्छत् तदप्राप्तिदुःखेन निरस्तं भविष्यसीति भूयसी संभावनास्तीति भावः। तथा चैवंविधविश्वसनीयामुन्नतह. दयां मां चेदनुरञ्जयसि तर्हि ते परं सौभाग्यमिति शृण्वन्तं प्रति ध्वन्यते । “दुर्लभलम्भं दुर्लभस्य सुरतसुखस्य लम्भः प्राप्तिर्यस्मात्तम् । आकाशपथैर्धमत् , दूतीप्रमुखोपायादिति भावः । कदापीत्यपिशब्दः संभावनायाम् । कः खलु सुभगो यस्तव भ्रमणं शमयिष्यतीति भावः” इति गङ्गाधरटीका । गुणगर्विता काचिद् गणिका स्वल्पेनैव कालेन विरज्यन्तं विटं निन्दन्ती दूतीमाह
अहव गुणविअ लहुआ अहवा गुणअणुओँ ण साँ लोओ। अहव हि णिग्गुणा वा बहुगुणवन्तो जणो तस्स ॥३॥
[अथवा गुणा एव लघवोऽथवा गुणज्ञो न स लोकः। ___ अथवास्मि निर्गुणा वा बहुगुणवाञ्जनस्तस्य ॥] सुगुणा एव नु लघवोऽथवा गुणशोस्ति न स लोकः ।
अथवास्मि निर्गुणा वा बहुगुणवान्वा जनस्तस्य ॥ ३॥ अपि किं गुणा एव अनादरणीया जाता इत्यर्थः । अथवाहं निर्गुणास्मि, यथा मेऽभिमानस्तथा मयि गुणा एव न सन्तीत्यर्थः । तस्य भुजङ्गस्य जनो गृहिणीरूपो बहुगुणवान् मदपेक्षयाऽधिकगुणशाली वा, येन न तस्य मयि बहुमानः । एवंविधगुणशालिनी मां नाद्रियत इति दयित एव गुणपरीक्षणदाक्षिण्यशून्य इत्याशयः।
'आत्मनो हृदय वेदनामावेद्य अन्यासक्तं प्रियतममभिमुखीकुरु' इति शिक्षयन्ती मातुलानी प्रति काचित्प्रियतमस्यास्निग्धतामेवमुदीरयति
फुट्टन्तेण वि हिअएण मामि कह णिवरिजए तम्मि । आदंसे पडिबिम्ब व जम्मि दुःखं ण संकमइ ॥४॥ [स्फुटतापि हृदयेन मातुलानि कथं निवेद्यते तस्मिन् ।
आदर्श प्रतिबिम्बमिव यस्मिन्दुःखं न संक्रामति ॥] हृदयेन स्फुटतापि च मातुलि तस्मिन्निवेद्यते नु कथम् ।
प्रतिबिम्बमिवादशे यस्मिन्संक्राम्यति न दुःखम् ॥ ४॥ सपत्नीजनवश्यतामवगत्य स्फुटता, दुःखेन विशीर्यतापि । अनेन चिराहक्लेशं सहमानस्य हृदयस्य दुःखभरैरापूर्णता द्योत्यते । दर्पणे प्रतिबिम्बो यथा उपर्यव तिष्ठति नान्तः प्रविशति तथा तस्मिन्प्रियतमेऽपि निवेद्यमानं निजदुःखं न तस्य हृदये स्थानं लभत इत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org