________________
तृतीयं शतकम् ।
58
' न मेऽन्यत्रासक्तिः, जनस्तु मिथ्या तथोद्घोषयति' इत्यनुनयन्तं कान्तं मानिनी - सप्रणयरोषमाह -
अच्छउ ता जणवाओ हिअअं विअ अत्तणो तुह पमाणम् । तह तं सि मन्दहो जह ण उवालम्भजोग्गो सि ॥ १ ॥ [ अस्तु तावज्जनवादो हृदयमेवात्मनस्तव प्रमाणम् । तथा त्वमसि मन्दस्नेहो यथा नोपालम्भयोग्योऽसि ॥ ] आस्तां वा जनवादस्तव प्रमाणं स्वयं हृदयमेव । मन्दस्नेहोस तथा न यथोपालम्भयोग्योऽसि ॥ १ ॥
अयं साम्प्रतमस्यां मन्दस्नेह इति जनप्रवादः अस्तु तावत्, दूरे तिष्टत्वित्यर्थः । तव हृदयमेव खयं प्रमाणम् । मां प्रति शिथिलानुरागतायामहं तवैव हृदयं प्रमाणीकरोमीति भावः । तथा मन्दस्नेहोसि यथा उपालम्भप्रदानस्यापि योग्यो नासीत्यर्थः । स्नेहशालिन एव प्रणयिने दीयते किलोपालम्भः । स एव च दाक्षिण्येन तमुपालम्भं सहते । त्वं तूदासीन इति नोपालम्भमईसीत्याशयः । उपालम्भं प्रददत्या अपि नोपालम्भयोग्य इति विशेषार्थसूचको निषेधोऽत्राभासरूपस्तथा च अलङ्कारसर्वस्वकारादीनां मतेनाक्षेपालंकारः, 'निषेधाभासमाक्षेपं बुधाः केचन मन्वते' । अनेन च मुहुर्मुहुस्तव व्यलीकशतैरनुमितादनुरागशैथिल्यात्तवोपालम्भप्रदानमपि नाभिरोचयामि किं पुनरन्यत्, इति मानिन्याः प्रणयको पविजृम्भितमभिव्यज्यते ।
Jain Education International
शृण्वन्तं कञ्चन युवानं वशीकर्तुं यथाभिमतवलभाऽप्राप्तिं सूचयन्ती काचित्कुलटा हृदयोपालम्भच्छलेनाह -
अप्पच्छन्द पहाविर दुल्लहलम्भं जणं वि मग्गन्त । आआसपaहिं भमन्त हिअअ कइआवि भज्जिहिसि ॥ २ ॥ [ आत्मच्छन्दप्रधावनशील दुर्लभलम्भं जनमपि मृगयमाण । आकाशपथैमहृदय कदापि भयसे ॥ ]
आत्मच्छन्दभ्रामक दुर्लभलम्भं जनं मृगयमाण । आकाशपथैर्भ्राम्यत्कदापि हृदयायि भंक्ष्यसे तात ॥ २ ॥
आत्मच्छन्देन धावनशील ! अनेन हि हृदयस्य स्वेच्छाचारितां सूचयन्त्यपि संगमादिषु गुरुजनपारतन्त्र्यं व्यनक्ति । दुर्लभो लम्भः प्राप्तिर्यस्य सहजमेवाऽसुलभमित्यर्थः, ईदृशं जनं मृगयमाण अन्विष्यत् ! अनेनात्मन उच्चाभिलाषितया रसिकाभिलषणीयत्वमभिव्यज्यते । निरवलम्बनमार्गैर्भ्राम्यत् । रहस्यभेदभिया दूतीप्रमुखोपायपरिहारात्
ލ
,
For Private & Personal Use Only
www.jainelibrary.org