________________
२ शतकम् ]
संस्कृतगाथासप्तशती ।
प्रसवानन्तरं रमणेन रमणे न परिगृहीता काचित्पुत्रस्य दन्तोद्गमकथनव्याजेन संप्रति संभोगसुखानुभवयोग्यतामात्मन एवमाह
गेह पलोअह इमं पहसिअवअणा पइस्स अप्पे | जाओ सुअपढमुभिण्णदन्तजुअलङ्किअं बोरम् ॥ १०० ॥ [ गृह्णीत प्रलोकयतेदं प्रहसितवदना पत्युरर्पयति । जाया सुप्रथमोद्भिन्नदन्तयुगलाङ्कितं बदरम् ॥ ] गृह्णीत पश्यतें प्रहसितवदना हि पत्युरर्पयति । जाया तनयनवोद्गतदन्तयुगेनाङ्कितं बदरम् ॥ १०० ॥
स्मेरमुखी जाया 'इदं गृह्णीत प्रलोकयत' इति सुतस्य प्रथमोद्भिन्नदन्तयुगलेनाङ्कितं बदरं प्रियस्यार्पयतीत्यर्थः । तनयदन्तदष्टस्य बदरस्य दूरतो दर्शनसंभवेपि 'गृह्णीत पश्यतेति प्रियकरसमर्पणेन तद्दन्तक्षतस्य सूक्ष्मदृष्टिदान दर्शनीयतया दन्तयोरङ्कुरावस्था ध्वन्यते । अत एवोत्तरार्द्धे नवोद्गतदन्तयुगेनेत्युच्यते । एवं च तनयस्य दन्तजननेन प्रसवोत्तरजायमानसरससंभोग सुखानुभवसमयोयं प्राप्त इति प्रियनिवेदनौत्कण्ठ्यं प्रहसितवदनेति पदेनाभिव्यज्यते । सरखतीकण्ठाभरणकारस्तु - " निजस्योपभोगयोग्यताप्रकाशनाभिप्रायेण सहासं बदरदर्शनप्रवृत्तिः ।" इति स्वकल्पितं भावाख्यमलङ्कारमाह— 'अभिप्रायानुकूल्येन प्रवृत्तिर्भाव उच्यते ।' कण्ठाभरणानुमतः 'विकसितनयना' इति पाठः । प्रशस्तश्चायमत्रत्यपाठापेक्षया । गाथायामस्यां गङ्गाधरस्तु 'स्वयमेव क्षतं संपाद्य पुत्रेण क्षतमिति मिथ्यैव दर्शयतीति प्रहसितवदनेति पदेन ध्वन्यते' इत्याह । इदं कुलवध्वाः संभोगभूरितृष्णासूचकतया न तथा रसानुकूलं स्यादिति मे मतिः । कण्ठाभरणपाठस्तु तनयदन्तजननरूपप्रियदर्शनेन विकसितनयनतया निष्कपटमात्मगत एव हर्षातिशयः प्रतीयत इति सोऽस्मदनुकूलः ।
रसिअजणहिअअदइए कइवच्छलपमुहसुकइणिम्मइए । सत्तसअम्मि समत्तं बीअं गाहासअं एअम् ॥ १०१ ॥ [ रसिकजनहृदयदयिते कविवत्सलप्रमुख सुकविनिर्मिते । सप्तशतके समाप्तं द्वितीयं गाथाशतकमेतत् ॥ ] रसिकजनहृदयदयिते कविवत्सलकुशलसुकविपरिरचिते । सप्तशतके समाप्तं गाथाशतकं द्वितीयमिदम् ॥ १०१ ॥ कविवत्सलो हालः कुशलः प्रमुखो येषु तैः सुकविभिर्निर्मिते ।
सं. गा. ९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org