________________
. काव्यमाला।
बहुसो. वि कहिज्जन्तं तुह वअणं मज्झ हत्थसंदिट्ठम् । ,ण सुअं त्ति जम्पमाणा पुणरुत्तसरं कुणइ अजा ॥ ९८ ॥
[बहुशोऽपि कथ्यमानं तव वचनं मम हस्तसंदिष्टम् ।
न श्रुतमिति जल्पन्ती पुनरुक्तशतं करोत्यार्या ॥] बहुशोपि कथ्यमानं तव वचनं मम हि हस्तसंदिष्टम् ।
न श्रुतमिति जल्पती पुनरुक्तशतं करोत्यार्या ॥ ९८॥ मम हस्तेन संदिष्टं मद्वारा तवाभिमुखमुपस्थापितम् । वाचा संदिष्टमपि शैलीसिद्धत्वेन हस्तसंदिष्टमित्युक्तम् । वारंवारं कथनेन पुनरुक्तशतं यद्यपि दूत्येव करोति, परं निभृततरमुक्ता एवंविधवर्णसंघटना कदाचन न श्रुता स्यादिति श्रवणसौकर्यार्थ प्रत्येककथनावृत्तौ शब्दशय्यापरिवर्तनेन दूतीवचने न पौनरुत्त्यं किन्तु 'न श्रुतं न श्रुतम्' इति तमेव शब्दं वारंवारमावर्तयन्ती नायिकैव पुनरुक्तशतं करोतीति गाथाकर्तुराकूतम् । बहुश इत्यत्र शस्प्रत्ययेन बहुवारं बहुप्रकारं चेति कथ्यमाने पौनःपुन्येन प्रकारभेदेन चातिशयो द्योत्यते। तथा च सम्यक्श्रवणनिमित्तं मुहुः शब्दशैलीपरिवर्तनेपि मुहुर्मुहुराकर्णनानुरागादश्रवणसूचितोऽनुरागातिशयो ध्वन्यते । एवमनुरक्ता सेयं भवतापि सबहुमानमनुवर्तनीयेति दूत्याः प्रेमदृढीकरणे तात्पर्यम् । 'मुद्रा' हस्तगता। ___ कस्यांचन कुलजायामनुरक्तं नायकं प्रति तस्या अनुरागं चान्यजनदृष्टिभ्यस्तद्गोपनदाक्षिण्यं च दूती नायकप्रोत्साहनार्थमाह---
पाअडिअणेहसम्भावणिन्भरं तीअ जह तुम दिहो । संवरणवावडाए अण्णो वि जणो तह व्वेअ ॥ ९९ ॥ [प्रकटितस्नेहसद्भावनिर्भरं तया यथा त्वं दृष्टः ।
संवरणव्यापृतया अन्योऽपि जनस्तथैव ॥1 त्वं किल तया प्रकटितानुरागसद्भावनिर्भरं हि यथा ।
संवरणव्यापृतया तथैव दृष्टो जनोऽन्योऽपि ॥ ९९ ॥ प्रकटितः स्नेहसद्भावो यस्मिन्कर्मणि यथा भवति तथा । प्रकटितस्नेहसद्धावं च निर्भर चेति ततः कर्मधारयः । अथवा प्रकटितस्नेहं च सद्भावनिर्भर चेति । संवरणे परस्परप्रेमबन्धस्य गोपने व्यापृतया प्रवृत्तया । प्रकटितप्रेम सरसं निभृतनिर्भरतया यथा त्वं दृष्टः, 'एतस्मिन्नियमनुरक्ता' इति कश्चिन्मा ज्ञासीदिति गोपनव्यापृतया तया अन्योपि जनस्तथैव दृष्ट इत्याशयः। लोकेभ्यो गोपनार्थ सर्वत्र समानदृष्टिनिपातेन नायके प्रेमदृष्टिस्तिरोहितेति सरस्वतीकण्ठाभरणकारमतेन पिहिताख्यो मीलितभेदः । 'वस्त्वन्तरतिरस्कारो वस्तुना मीलितं स्मृतम् । पिहितापिहिते चैव तद्गुणातद्गुणौ च तत् ॥' अनेन च मीलितेन त्वयि प्रेमविवशापि सा कियच्चतुरेति नायिकादाक्षिण्यमुन्मीलितम् । तथा चैवंविधा निर्भरप्रेमसरसहृदयापि परमकुशला सेयं त्वय्यनुरक्तेति पश्य ते सौभाग्यमिति दूतीकर्तव्यान्तर्भूतं नायकमनोहरणमभिव्यज्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org