________________
२ शतकम् ] संस्कृतगाथासप्तशती।
उप्फुल्लिआइ खेल्लउ मा णं वारेहि होउ परिऊढा । मा जहणभारगरुई पुरिसाअन्ती किलिम्मिहिइ ॥९६ ॥ [उत्फुल्लिकया खेलतु मैनां वारयत भवतु परिक्षामा ।
मा जघनभारगुर्वी पुरुषायितं कुर्वती लमिष्यति ॥] उत्फुल्लिकया खेलतु मैनां वारयत जायतां क्षामा ।
मा जघनभारगुर्वी दधती पुरुषायितं क्लमिष्यति यत् ॥९६॥ उत्तानं शयानस्य पादयोरुपविष्टानां बालानां मुहुः पतनोत्पतनरूपा क्रीडा उत्फुल्लिकेल्याख्यायते । एनां मा निवारयत । क्षामा श्रमेण जितश्वासा कृशमध्या च भवत्वित्यर्थः। यतः पुरुषायितं कुर्वती यौवने जघनभारगौरवेण न क्लान्तिमेष्यतीति भावः । अत्र सखीमुद्दिश्य सपरिहासमुक्तावपि शिशुविषये एवमुदीरणया रसाभासता कष्टं समाधेया।
शीलखण्डनविलक्षां काञ्चन कुलवधूं तच्चित्तसमाधानेन समाश्वासयन्ती तत्पक्षपातिनी काचिद्विरोधिजनवचननिरोधार्थमाह
पउरजुवाणो गामो महुमासो जोअणं पई ठेरो । जुण्णसुरा साहीणा असई मा होउ किं मरउ ॥ ९७ ॥
[प्रचुरयुवा ग्रामो मधुमासो यौवनं पतिः स्थविरः । ___ जीर्णसुरा स्वाधीना असती मा भवतु किं म्रियताम् ॥] प्रचुरयुवासौ ग्रामो मधुमासो यौवनं पतिः स्थविरः।
जीणेसुरा स्वाधीना ह्यसती मा भवतु किं म्रियताम् ॥९७॥ प्रचुरा युवानो यस्मिन् । प्रचुरतया कस्मात्कस्माद्वा शीलरक्षणेऽवधीयेतेति सूच्यते । जीर्णसुरा प्राचीनमद्यम् । पुरातनं हि तत्प्रीतिकरं भूरिमादकं च । स्वाधीनेयनेन यथेछपानसौकर्यान्मनसो भूयस्तरामवशता द्योत्यते । एकैकमपि शीलखण्डनसमर्थेष्वेषु सर्वेष्वेकत्र मिलितेषु चरित्रभ्रंशोस्या नापराधायेत्यर्थः । अत्र 'असती मा भवतु' इति निषेधस्य प्रचुरयुवा ग्राम इत्यादि कारणमुक्त्वा 'ततः किं म्रियताम्' इत्यनेन रोधः क्रियते । सासूयप्रश्नार्थकस्य किमः काका निषेधार्थत्वं गम्यत इति सोयं युक्त्या रोध इति सरस्वतीकण्ठाभरणानुसारं निषेधे प्रतिकूलो रोधालङ्कारः। 'प्रतिकूलोऽनुकूलश्च विधौ रोधोऽभिधीयते । निषेधेप्युक्तियुक्तिभ्यां द्विप्रकारः स कथ्यते ॥' तथा चैवंविधघटनापारवश्येन खण्डितशीलासौ न वचनीयभाजनमिति विरोधिनिरोधोऽभिव्यज्यते।
प्रणयिनो मनोहरणार्थं नायिकायामासक्तिदृढीकरणार्थं च दूती तस्या अनुरागातिशयमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org