________________
९४
काव्यमाला।
भवता वहस्तदत्तां निर्गन्धामपि हि सुभग साऽद्यापि ।
अवमालिकां विसर्जितनगरीगृहदेवतेवबत वहति ॥९४॥ हे सुभग ! गन्धरहितामपि अवमोचनयोग्यां मालिकां त्वया खोपभोगमङ्गलीकृता प्रेमप्रसादबुद्ध्या खहस्तेन दत्तेति भवत्करस्पर्शबहुमानात् उद्वासितनगरगृहदेवतेव सा अद्यापि धारयति । उद्वासिता हि नगरदेवता पूर्व जनैरारोपितां कालानन्तरं शुष्कामेव कुसुममालिकां धारयति, तथा त्वद्विरहवेदनयाऽन्यविधमण्डनमनभिरोचयन्ती दिव्यसौन्दर्यसुभगा सापि विसर्जनयोग्यामपि निर्गन्धमालिकां त्वत्करसम्बन्धसौख्यप्रदेति सबहुमानं धत्त इत्याशयः । तथा च त्वयि निर्मायमनुरज्यन्ती त्वद्विरहवेदनया निर्जीवालेख्यपुत्रिकामिव शोच्यां दशामुपगतां तां किमिति नानुकम्पस इति बतशब्दसहकारेण सूचितम् । सुभगेत्यनेन एतादृशं तव सौभाग्यमतस्तन्मा वृथा कृथा इत्यपि ध्वन्यते । नगरगृहदेवतेत्यत्र नगरपदेन सर्वेपि नागरिकास्तां सौन्दर्यादिबहुमानकारणास्पृहयन्ति, अतस्तेषामवमर्शनं यावन्न स्यात्तावदेनामनुसरेत्यपि गूढमभिव्यज्यते । धारणेन पर्युषितत्वेन च अवमर्दिता माला अवमालिका ।
'केलिभवनमागते तस्मिन्मानमवलम्ब्य निजसमीहितं साधय' इति कस्मैचित् कार्याय मानग्रहणं शिक्षयन्तीं बन्धुपुरन्ध्रीं काचिदाह
केलीअ वि रूसे ण तीरए तम्मि चुकविणअम्मि । जाइअएहिँ व माए इमेहि अवसेहि अङ्गेहिं ॥ ९५ ॥ [केल्यापि रुषितुं न शक्यते तस्मिंश्युतविनये।
याचितकैरिव मातरेभिरवशैरङ्गैः ॥] तस्मिंश्च्युतविनये किल रोषितुमिह शक्यते न केल्यापि ।
एभिर्याचितकैरिव मातर्विवशासहैरङ्गैः ॥ ९५॥ च्युतविनये रतिलौल्यलङ्घितलजतया विनयमवधीरयमाणे तस्मिन् (प्रेयसि ) याचितकैरिव अभ्यर्थ्यानीतैरिव अवशैरत एव अनभिरुचितविषये ममाधीनतामसहमानैरेभिरझैहे मातः! केल्यापि परिहासेनापि किल रोषः कर्तुं न शक्यते । मातरित्यनेन अप्रतारणीयतया निजवचसि प्रत्येयता सूच्यते । एवं च परिहास एव यदाहं मानमवलम्बितुमवशा तर्हि प्रणयचर्यातः सुतरां विप्रकृष्टं खार्थमुद्दिश्य कथंकारं कोपः कर्तुं शक्य इति 'अपि' शब्दस्वारस्येन प्रियप्रणयपारवश्यमभिव्यज्यते । याचितकं वस्तु यथा न स्वीयं भवति नापि यथेच्छं बलकार्येषूपयुज्यते, तथैव ममाङ्गान्यपि तस्मिन्समये प्रियतमसाद्भवन्तीति बलतः कार्यक्षमाणि नेति पारतच्यातिशयो ध्वन्यते । गङ्गाधरटीकावतरणे 'अपि'पदस्वारस्यं न भाति।
उत्फुल्लिकया क्रीडन्ती बालिकामपवारयन्तीं सखी कामुकजनमनःसमाकर्षणार्थमात्मनो विपरीतरतपाटवमभिसूचयितुं काचिदाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org