________________
२ शतकम् ] संस्कृतगाथासप्तशती। इव स्कन्धैरुह्यन्ते सादरं नीयन्त इत्यर्थः । सुवर्णकारतुला अक्षतोऽधिकमतोलयन्त्यः [ निरक्षं रान्तीति निरक्षराः ] अपि गौरवाभ्यधिकाः दत्ताधिकगौरवाः स्कन्धैर्नीयन्ते सावधानं नीयन्ते । षोडशमाषकैरक्ष इत्यमरः । वैद्यकमते तु तोलकद्वयमितः । एवं च ममाग्रतः प्रशस्यमानासौ वर्णपट्टिकामजानतीवेति सुभृशमात्मनो गुणगोभिव्यज्यते । अत्र तुलापक्षे अक्षरेखारहिता इति गङ्गाधरभट्टः । अङ्करेखारहिता इति कुलबालदेवः। चिरडीति वर्णमालापर्यायो देशीशब्दः । कलहान्तरितायाः स्मरणेन समयविनोदमिच्छन् तत्कान्तः सहचरमाह
आअम्बन्तकवोलं खलिअक्खरजम्पिारं फुरन्तोहिम् । मा छिवसु त्ति सरोसं समोसरन्ति पिअं भरिमो ॥९२ ॥ [आताम्रान्तःकपोलां स्खलिताक्षरजल्पनशीलां स्फुरदोष्ठीम् ।
मा स्पृशेति सरोषं समपसर्पन्तीं प्रियां स्मरामः ॥] अन्तस्ताम्रकपोलां स्फुरदोष्टी स्खलितवर्णविन्यासाम् ।
मा मा स्पृशेति सक्रुधमपसर्पन्तीं प्रियां स्मरामोऽङ्ग ॥९२ ॥ कोपवशतया स्खलिताक्षरं जल्पन्तीम् । अङ्गेति सुहृत्संबोधने । गोदावरीमुत्तरतोरनयोरस्ति परस्परं प्रीतिरित्यात्मनोभिज्ञतां सूचयन्नागरिकः सहचरमाह
गोलाविसमोआरच्छलेण अप्पा उरम्मि से मुक्को । अणुअम्पाणिदोसं तेण वि सा आढमुवऊढा ॥ ९३ ॥ [गोदावरी विषमावतारच्छलेनात्मा उरसि तस्य मुक्तः ।
अनुकम्पानिर्दोष तेनापि सा गाढमुपगूढा ॥] आत्मा तदुरसि मुक्तो गोदाविषमावतारकैतवतः।
अनुकम्पानिर्दोषं तेनापि च सा प्रगाढमुपगूढा ॥ ९३॥ गोदावर्या अवतरणस्थलमिदमुच्चावचमिति च्छलेन नायकोरसि, अनया स्वशरीरमवरोपितम् । 'भीरु ! मा भूत्पतनभयम्' इति सान्त्वनदयां प्रदर्शयतेव तेन । गाढालिङ्गने भयनिवारणानुकम्पा मिष इति भावः। प्रतीयमानोयमन्योन्यालंकार इत्यत्र प्रत्यभियोगतः प्रेमपरीक्षायां चोदाहृता स० कण्ठाभरणे। नायिकानुरागप्रदर्शनेन मन्दानुरागं नायकमनुकूलयितुं दूती आह
सा तुइ सहत्थदिण्णं अज वि रे सुहअ गन्धरहिअंपि । उव्वसिअणअरघरदेवदे व्व ओमालिअं वहइ ॥ ९४ ॥ [सा त्वया स्वहस्तदत्तामद्यापि रे सुभग गन्धरहितामपि । उद्वसितनगरगृहदेवतेव अवमालिकां वहति ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org