________________
९.२
काव्यमाला |
कस्याश्चिदनुरागातिशयं प्रतिपाद्य तत्संगमाय नायकमुत्कण्ठयन्ती दूती आहतुज्झङ्गराअसेसेण सामली तह खरेण सोमारा । सा किर गोलाऊले हाआ जम्बूकसाएण ॥ ८९ ॥
[ तवाङ्गरागशेषेण श्यामला तथा खरेण सुकुमारा । सा किल गोदाकूले स्नाता जम्बूकषायेण ॥ ] श्यामा सुकुमारा तव तथा खरेणाङ्गरागशेषेण । सा किल गोदाकूले स्नाता जम्बूकषायेण ॥ ८९ ॥
कृतगात्रोद्वर्तनस्य तवाङ्गरागशेषेण तीक्ष्णतया मलापनोदकेन जम्बूकषायेण, सुकुमारतया तथा तीक्ष्णजम्बूकषायानपि सा वरवर्णिनी स्नातेत्याशयः । किलेत्यरुचौ । तथा च मलिनतीक्ष्णतादृशकषायमनभिरोचयन्त्यपि त्वत्प्रेम्णा स्नातेति द्योत्यते । एवं च भवदङ्गसङ्गाभिलाषेण तवाङ्गरागोच्छिष्टग्रहणं स्नानच्छद्मना कुर्वन्त्या तया स्पष्टं त्वय्यनुरागः प्रकाशितः, तथा चैतादृशीं किमिति नोपसेवसे इति ध्वनिः ।
निजदयितस्य सकलग्रामजनगोष्ठीमण्डनतां सूचयन्ती प्रोषितभर्तृका सखीजनमाह - अज व्वेअ पउत्थो अज व्विअ सुण्णआइँ जाआई । रत्थामुहदेउलचत्तराइँ अक्षं च हिअआई ।। ९० ॥ [ अद्यैव प्रोषितोऽद्यैव शून्यकानि जातानि । रथ्यामुख देवकुलचत्वराण्यस्माकं च हृदयानि ॥ ] प्रोषित एषोद्यैव च शून्यान्यद्यैव जातानि । रथ्यामुखसुरमन्दिरवत्वरकाणि च मनांसि चास्माकम् ॥ ९० ॥ अद्यैव गतः अद्यैव च रथ्यामुख - देवमन्दिर - प्राङ्गणानि अस्माकं मनांसि च शून्यानि जातानि । 'अङ्गणं चत्वराजिरे' इत्यमरः ।
गुणतोऽवरायाः कस्याश्चन गणिकाया भुजङ्गगणेन क्रियमाणां प्रशंसामसहमाना गुणगर्विता गणिका काचिदाह
चिरडि पि अआणन्तो लोआ लोएहिँ गोरखम्भहिआ । सोणारतुले व्व णिरक्खरा वि खन्धेहिँ उम्भन्ति ॥ ९१ ॥
[सिद्धिरस्तु इत्यादि] वर्णावली मध्यजानन्तो लोका लोकैगौरवाभ्यधिकाः । सुवर्णकारतुला इव निरक्षरा अपि स्कन्धैरुह्यन्ते ॥ ] वर्णानप्यविदन्तो लोका लोकैर्हि गौरवाभ्यधिकाः । स्कन्धैर्निरक्षरा अपि सुवर्णकारकतुला इवोह्यन्ते ॥ ९९ ॥ जनैः, ‘ॐ नमः सिद्धम् सिद्धिरस्तु' इत्यारभ्यां वर्णमालामप्यजानन्तो लोकाः गौरवाभ्यधिकाः परमादरणीया इतिकृत्वा निरक्षरा अपि निर्विद्या अपि सुवर्णकारतुला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org