________________
२ शतकम् ]
संस्कृतगाथासप्तशती।
नातिप्रखरतापायां शरदि गभीरावकाशतया अन्तःशीतलानि, अथ बहिः ( उपरितः) उष्णानि । कापि मध्याह्नाभिसारिका 'संकेतितहदतीरलतागृहमहं गता, त्वं तु न गतः' इति जारं प्रति प्रतिपादयन्ती सत्यपि हृदयस्य स्थिरस्नेहतां सज्जनहृदयप्रशंसाछलेनाह' इति गङ्गाधरावतरणम् । __ प्रथमाभिसारे साध्वसमुत्पद्यत एवेति सान्त्वयन्ती दूती कस्याश्चिन्मौग्ध्यवर्णनप्र. स्तावे प्रथमाभिसारिकामाह
आअस्स किं णु करिहिम्मिकि बोलिस्सं कहं णु होइहि[इमिति पढमुग्गअसाहसआरिआइ हिअ थरहरेइ ॥ ८७ ॥ [आगतस्य किं नु करिष्यामि किं वक्ष्यामि कथं नु भविष्यति [इदम्] इति।
प्रथमोद्गतसाहसकारिकाया हृदयं थरथरायते ॥] किं वाऽऽगतस्य वक्ष्ये किं नु करिष्ये कथं नु भवितेदम् ।
प्रथमोद्गतनवसाहसकारिण्यास्थरथरायते हृदयम् ॥ ८७ ॥ आगतस्य नायकस्य किं वक्ष्यामि किं नु करिष्यामि । इदमभिसरणसाहसं कथं नु भविता, कथं सिद्धिमागन्ता नु ? साहससिद्धौ संशयेन मौग्ध्यमभिद्योत्यते । प्रथमोद्भूतमत एव नवं साहसं कर्तुमग्रेसर्याः हृदयं थरथरायते साहसोत्कण्ठाभ्यां कम्पत इत्यर्थः। 'थरथरायते' इत्यनुकरणनिष्पन्नो नामधातुः। __ अनुनयाऽग्रहणवैलक्ष्येण कलहान्तरिताया नायिकाया अहिलत्वदोषं साधयन्तं कान्तं प्रति तत्परिहरन्ती दूती तस्या वैदग्ध्यमेवमाह
णेउरकोडिविलग्गं चिउरं दइअस्स पाअपडिअस्स । हिअ पउत्थमाणं उम्मोअन्ती विअ कहेइ ॥ ८८ ॥ . [नूपुरकोटिविलग्नं चिकुरं दयितस्य पादपतितस्य ।
हृदयं प्रोषितमानमुन्मोचयन्त्येव कथयति ॥] नूपुरकोटिविलग्नं चिकुरं दयितस्य पादपतितस्य ।
हृदयं प्रोषितमानं कथयत्युन्मोचयन्त्येव ॥ ८८॥ ___ मानापनोदनाथ पादपतितस्य दयितस्य परमप्रेष्ठस्य न तु स्वामिसामान्यस्य, तवेत्यर्थः । नूपुरशिखरावसक्तं केशं तदवकर्षणेन तव पीडा मा भूत्' इति नूपुरतोऽवमोचयन्त्येव सा हृदयं प्रोषितमानं (गतमानम् ) कथयति। निरवधिप्रणया हि विदग्धमानिन्यो मुखतो मुखरागतो वा न प्रसादमाविष्कुर्वन्ति, किं तु चेष्टाविशेषेण तं निभृतमभिव्यञ्जन्ति । तथा च तया तव पीडानुमानेन निजनूपुरविलग्नं त्वत्केशमबमोचयन्त्या चातुर्येण प्रसन्नमात्महृदयमाविष्कृतमेव । परं ततः परावर्तमानेन न त्वयानुरूपमाचरितम् । अतः परमविदग्धायास्तस्या न पहिलत्वदोषः, किन्तु तवैव तावदवैदग्ध्यमिति चतुरं सूच्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org