________________
:: काव्यमाला ।
हे ऋजुक ! कृतापराधोपि सारल्येन प्रसन्नामिव मां मन्वानः परिरम्भणकपटेन मां प्रसादयितुमिच्छसीत्यहो ते सारल्यमिति विपरीतलक्षणया सूचितम् । अहं कुपिता नास्मि, त्वं निरपराध इति नाहं कुपिता । उपगृह परिरभख । प्रसादनकपटेन मुधा किम् ? तव मन्युसमुत्पादकेन मम मानेनापि न कार्यम् । त्वं यथेच्छमन्यमहिलासु रमसे, मम तु तव वेदनादायकतया मानं कर्तुमपि नाधिकार इति सर्व वक्रया सरण्या समुदीर्यते । भानापनोदनमन्तरैवालिङ्गनमङ्गीकुर्वन् कपटेन मां प्रतारयितुमिच्छसि । अहं चैतदभिज्ञेति निपुणमभिव्यज्यते । गङ्गाधरभट्टस्तु 'सुशीला नायिका कृतापराधमनुनयन्तं कान्तं सप्रणयरोषमाह' इत्यवतारयन् 'अनभिज्ञे खामिनि मानो निष्फल:' इति समर्थयते। तत्र सुशीलाया अपि स्वामिन्यनभिज्ञतासमर्थनं रोषोक्तौ 'उपगृह' इति कथनं च कियत्स्वारस्यावहमिति विचारणीयमेव । अत एव 'व्यलीकविप्रिययोगादिभिरालिङ्गनादीनां निराकरणमयथावत्प्रदानत्वात् , विसंवादनमेवोच्यते' इति प्रसङ्गे उदाहृता सेयं सरस्वतीकण्ठाभरणे (५ परि.)। विरहिण्याः सखी संगमाय त्वरामुत्पादयितुं तत्कान्तमाह... दीहुनपउरणीसासपआविआँ वाहसलिलपरिसित्तो । साहेइ सामसवलं व तीऍ अहरो तुह विओए ॥ ८५ ॥
[दीर्घोष्णप्रचुरनिःश्वासप्रतप्तो बाष्पसलिलपरिसिक्तः ।। - साधयति श्यामशबलमिव तस्या अधरस्तव वियोगे ॥] बाप्पसलिलपरिषिक्तस्तप्तो दीर्घोष्णबहुलनिःश्वासैः।
श्यामशवलमिव तस्या अधरः साधयति तव विरहे ॥ ८५ ॥ दीघैरुष्णैः प्रचुरैश्च निःश्वासैस्तापितः, पुनर्नयनसलिलेन सम्यक् स्नातः अधरः । श्यामशबलं व्रतविशेषं साधयतीव । तत्र हि पूर्वमनौ प्रविश्य जले प्रविश्यते । तथा च 'तदधरव्रतस्य पारणं त्वदधरसमागमरूपं त्वदायत्तमेव' इति नायकं प्रत्यभिव्यज्यते ।
कोपमनुमाय नायकसमागमे संकुचन्तीं नायिका 'गम्भीराशयानां नान्तरे कोपः, केवलमुपरित एव तेषां तथा प्रतीतिः' इति तदनुनयाय प्रेरयन्ती दूती जनसमक्षं शरत्सरोवर्णनव्याजेनाह
सरए महद्धदाणं अन्ते सिसिराइँ वाहिरुलाई । जाआइँ कुविअसजणहिअअसरिच्छाइँ सलिलाई ॥ ८६ ॥ [शरदि महाहदानामन्तः शिशिराणि बहिरुष्णानि ।
जातानि कुपितसजनहृदयसदृक्षाणि सलिलानि ॥] शरदि हि महाहदानामन्तः शिशिराणि बहिरथोष्णानि । जातानि कुपितसजनहृदयसदृक्षाणि सलिलानि ॥ ८६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org