________________
२ शतकम् ] संस्कृतगाथासप्तशती।
महिलासहरभरिते तव हृदये सुभग सा किलाऽमान्ती ।
अनुदिनमनन्यकर्मा ह्यङ्गं तन्वपि तनूकुरुते ॥ ८२॥ महिलासहस्रेण भरिते व्याप्ते तव हृदये अमान्ती अवकाशमलभमाना सा मत्सखी। महिलासहस्रेत्यनेन 'त्वमेव ताखनुरज्यसि न ता धूर्ताः' इति सूच्यते । अनुदिनं समग्रमपि दिवसं व्याप्य अनन्यकर्मा त्यक्तान्यकार्या सती । तनु खतः कृशमपि अङ्गं तनूकुरुते हृदयेऽवकाशलाभार्थ कृशमपि कृशतरं करोतीत्यर्थः । अनन्यकर्मेत्यनेन त्वत्समागमोपायचिन्तां विहाय नान्यत्किमपि कार्यमिति गृहकार्यविरल्या अनुरागातिशयो द्योत्यते । महिलासहस्रभरितमत एव अमान्ती, एवं तव हृदये अमान्ती अत एव अङ्गं तनूकरोतीत्युभयत्र काव्यलिङ्गालंकारः। आभ्यां काव्यलिङ्गाभ्यां 'कृशस्य कृशतरकरणेपि तव हृदये सा स्थानं नासादयति' इति विशेषोक्तिय॑ज्यते । ततश्चात्र अर्थशक्तिसमुत्थेनालंकारेणालंकारध्वनिः । कश्चित्कस्यांचिन्निजानुरागं सहचरं प्रत्येवमाह
खणमेत्तं पि ण फिट्टइ अणुदिअहविइण्णगरुअसंतावा । पच्छण्णपावसङ्के व्व सामली मज्झ हिअआओ ॥ ८३ ॥ [क्षणमात्रमपि नापयात्यनुदिवसवितीर्णगुरुकसंतापा ।
प्रच्छन्नपापशङ्केव श्यामला मम हृदयात् ॥ ] क्षणमपि नापसरति पुनरनुदिवसवितीर्णगुरुकसंतापा ।
श्यामा मम हृदयादयि नूनं प्रच्छन्नपापशङ्केव ॥ ८३॥ प्रतिदिनं वितीर्णो गुरुकः संतापो विरहजनिता पीडा ययेति श्यामापक्षे। पापशङ्कापक्षे संतापस्तत्पापानुस्मरणजन्यः । यथा प्रच्छन्नपापस्य लोकेषु प्रकाशनशङ्का सुभृशमनुतापयन्त्यपि न क्षणमात्रमप्यपयाति, तथा श्यामा सा उत्तमस्त्री मम हृदयान्नापैतीत्यर्थः । प्रच्छन्नपापशङ्केत्यनेन पापशङ्का विश्वस्तायापि यथा न प्रकाश्यते तथा दृढप्रणया कुलरमणी सापि न कस्मैचिदपि प्रकाशनीया, तथापि तुभ्यं मया साऽऽवेदितेति सुहृदं प्रति विश्वासातिशयः सूचितः। . कृतापराधतायामपि परिरम्भणादिद्वाराऽनुनयन्तं कान्तं प्रणयरोषकलुषा काचिप्रगल्भा वक्रया सरण्या समभिधत्ते
अञ्जअ णाहं कुविआ अवऊहसु किं मुहा पसाएसि । तुह मण्णुसमुप्पाअऍण मज्झ माणेण वि ण कजम् ॥ ८४॥ [अज्ञ नाहं कुपिता उपगृह किं मुधा प्रसादयसि ।
तव मन्युसमुत्पादकेन मम मानेनापि न कार्यम् ॥] ऋजुकाऽहं नहि कुपितास्म्युपगृह नु किं मुधा प्रसाद्यसि । मानेनापि न कार्य तव मन्युविधायकेन मम ॥ ८४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org