________________
८८
. काव्यमाला ।
कस्याश्चन हलिकपुत्रेऽनुरागं सूचयनागरिकः सहचरमाह
सामाइ सामलिजइ अद्धच्छिपलोइरीअ मुहसोहा । जम्बूदलकअकण्णावअंसभरिए हलिअपुत्ते ॥ ८०॥ [श्यामायाः श्यामलायतेऽर्धाक्षिप्रलोकनशीलाया मुखशोभा।
जम्बूदलकृतकर्णावतंसभ्रमणशीले हलिकपुत्रे ॥] श्यामाया मुखशोभा श्यामति नयनार्द्धसमवलोकिन्याः।
जम्बूदलकृतकर्णवतंसे हलिकात्मजे भ्रमति ॥ ८० ॥ अहं संकेतस्थले स्थित्वाऽऽगत इति सूचकेन जम्बूकिसलयेन कृतः कर्णावतंसो येन एतादृशे हलिकपुत्रे भ्रमति सति । हलिकेति प्राकृतानुरोधात् । जनेभ्योऽनुरागगोपनार्थम क्षिविलोकनशीलायाः श्यामलाया उत्तमस्त्रियाः षोडशवार्षिक्या वा मुखशोभा संकेतकालविलङ्घनवैलक्ष्येण विरहखेदेन च श्यामति अश्यामापि श्यामायते । आचारार्थे क्विप् । जम्बूदलकृतकर्णपूरं हलिकसुतं वीक्ष्य स्वयमेव मलिना भवतीत्यर्थः । तथा च मुखमालिन्यरूपेणानुभावेन नायिकानिष्ठो विप्रलम्भः पोष्यत इति ध्वनित्वं प्रस्फुटम् । विप्रलम्भपोषकतयाऽधिकशोभाकारकं वाच्यं मुखमालिन्यं प्रति संकेतभङ्गरूपस्य व्यङ्ग्यस्य गुणीभूततया तु मध्यमकाव्यत्वम् । एतद्गाथानुहारि रुद्रटालङ्कारे उदाहृतं पद्यम्-'ग्रामतरुणं तरुण्या नव०।' अनुनयाऽग्रहणवैलक्ष्येण कोपकलुषं नायकमनुनेतुं कलहान्तरिता दूतीमाह
दुइ तुमं विअ कुसला कक्खडमउआइँ जाणसे वोल्लुम् । कण्डूइअपण्डुर जह ण होइ तह तं करेजासु ॥ ८१॥ [दूति त्वमेव कुशला कर्कशमृदुकानि जानासि वक्तुम् ।
कण्डूयितपाण्डुरं यथा न भवति तथा तं करिष्यसि ॥] दूति त्वमेव कुशला वक्तुं जानासि कर्कशमृदूनि ।
तं किल तथा करिष्यसि कण्डूयितपाण्डुरं यथा न स्यात् ॥ ८१॥ कण्डूयनेन कण्डूयथा शाम्यति पाण्डुरतया चर्मवैरूप्यं च न भवति तथा किल तं नायकं करिष्यसि । कटुतर्जनैर्यथा नोद्विजते मृदुभाषितैर्यथा मां भजते त्वमपि तथा वक्ष्यसीत्याकूतम् । बहुवल्लभं नायकं प्रति चतुरा दूती कस्याश्चिदनुरागमेवं सूचयति
महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती । दिअहं अणण्णकम्मा अङ्गं तणुअंपि तणुएइ ॥ ८२ ॥ [महिलासहस्त्रभृते तव हृदये सुभग सा अमान्ती । दिवसमनन्यकर्मा भङ्गं तनुकमपि तनूकरोति ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org