________________
२ शतकम् ]
संस्कृतगाथासप्तशती ।
णाहं दूई ण तुमं पिओ त्ति को अह्म एत्थ वावारो । सा मरइ तुज्झ अअसो तेण अ धम्मक्खरं भणिमो ॥ ७८ ॥ [ नाहं दूती न त्वं प्रिय इति कोऽस्माकमत्र व्यापारः । सा म्रियते तवायशस्तेन च धर्माक्षरं भणामः ॥ ] नाहं दूती न त्वं प्रिय इति किं वात्र कार्यमस्माकम् । सा म्रियते यशस्तव तेन च धर्माक्षरं भणामोऽङ्ग ॥ ७८ ॥ त्वदाह्वाने प्रयत्नाभावान्नाहं दूती । तस्यामेवंनिरनुक्रोशत्वान्न त्वं प्रियः । यदि त्वं प्रियोऽभविष्यस्तर्हि विरहेण पीड्यमानामिमां नैवमुपैक्षिष्यथा इति भावः । अत एवात्रा - स्माकं को वा व्यापारः । तन्मरणं तव चापयशः प्रसमीक्ष्य । अङ्गेति संबोधने, हे विवेचकेति भावः । धर्माक्षरं धर्म्या वार्ता वयं ब्रूमः । यद्यपि तस्यां तव नानुरागस्तथापि स्त्रीवधपातकभयेनैव साऽनुकम्पनीयेति भावः । प्रियानयनार्थमागताया दूत्या निजदूतीत्वं प्रिये प्रियत्वं च निषिध्यन्त्या निषेधाभासभूतेनानेनाक्षेपालङ्कारेण " त्वदुपेक्षया म्रियमाणा सा यावन्नोपैति पञ्चत्वं तावदेव सा सत्वरमुपगन्तव्या" इति दयितं प्रत्यभिव्यज्यते । ‘निषेधाभासमाक्षेपं बुधाः केचन मन्वते' इत्यप्पयदीक्षितः । गङ्गाधरटीकावतरणे तु 'विरहोत्कण्ठितायाः सखी तत्कान्तमाह' इति सख्युक्तिः स्वीकृता । तारतम्यं सहृदयैरवगन्तव्यम् ।
चरणयोः प्रणिपातेनानुनयन्तं कान्तमन्यस्त्रीसङ्गचिह्नं नैपुण्येन प्रदर्शयन्ती खण्डिता सोपालम्भमाह
तीअ मुहाहिं तुह मुहँ तुज्झ मुहाओ अ मज्झ चलणम्मि | हत्थाहत्थी गओ अइदुक्करआरओ तिलओ || ७९ ॥ [ तस्या मुखात्तव मुखं तव मुखाच्च मम चरणे । हस्ता हस्तिकया गतोऽतिदुष्करकारक स्तिलकः ॥ ] तस्या मुखात्तव मुखं मुखाच्च तव मम ततश्चरणे । हस्ताहस्तिकयाऽगादतिदुष्करकारकस्तिलकः ॥ ७९ ॥
रात्रौ रमितायास्तस्या युवत्या मुखात् ललाटिकाख्योपगूहन विशेषसमये तव मुखम्, ततस्तव मुखाच्च प्रणिपातसमये मम चरणे, एवमेकस्मात्स्थानादन्यत्र संक्रामकत्वादतिदुष्करकार्यकारकस्तिलकः । हस्ताहस्तिकया हस्तपरम्परया अगात् गतः । उपालम्भविधया तिलकं निन्दन्त्या खण्डितयाऽन्यरतिलम्पटस्य नायकस्य निन्दा सूचिता । तथा च 'निन्दाया निन्दया व्यक्तिर्व्याजनिन्देति गीयते' इति लक्षितो व्याजनिन्दालंकारः । अनेन च 'युवत्यन्तरसङ्गचिह्नं प्रत्यक्षं ललाटे वहन्नपि मुचैवानुनयेन व्यामोहयसि' इत्युपालम्भः प्रियं प्रत्यभिव्यज्यते । ललाटिकालक्षणं तु— 'मुखे मुखमासज्याक्षिणी अक्ष्णोर्ललाटेन ललाटमा हन्यात्सा ललाटिका' इति
वात्स्यायनः ।
Jain Education International
८७
For Private & Personal Use Only
www.jainelibrary.org