________________
८६
काव्यमाला |
रणसत्त्वात् 'गोदावरीतीरं भीरुभ्रमणायोग्यं सिंहवत्त्वात्' इत्यनुमानेनेव गोदातटे निषेधो ज्ञायते न व्यञ्जनयेति साधितम् । तत्तु ध्वनिस्थापकैः श्रीमम्मटभहै: 'भीरुरपि गुरोः प्रभोर्वा आज्ञया निधिलाभाद्याशया च भयकारणसत्त्वेपि परिभ्रमतीति व्यतिरेकव्याप्तिरेव न सिध्यति । किं च सिंहवत्त्वमिति हेतुर्विरुद्धपि । यतो हि वास्तवे वीरः स्पर्शदोषात् शुनो बिभ्यदपि सिंहान्न बिमेतीति सिंहवत्त्वं हेतुरभ्रमणमनुमापयितुमप्रभुः, इत्यादिसमुचिताभिरुपपत्तिभिः सुदूरं तिरस्कृतमित्यादि काव्यप्रकाशादिभ्योऽवगन्तव्यम् ।
कयाचन नायिकया सह दाक्षिण्येन निजाभिलाषं पूरयन्तं कमपि युवानं परिहास - कुशलः कश्चिदाह
वाएरिएण भरिअं अच्छि कणऊरउप्पलरएण । फुक्कन्तो अविद्धं चुम्बन्तो को सि देवाणम् ॥ ७६ ॥ [ वातेरितेन भृतमक्षि कर्णपूरोत्पलरजसा । फूत्कुर्वन्नवितृष्णं चुम्बन्कोऽसि देवानाम् ॥ ] कर्णावतंससरसिजरजसा वातेरितेन भृतमक्षि । फूत्कुर्वन्नवितृष्णं चुम्बन्नयि कोऽसि देवानाम् ॥ ७६ ॥ पवनाक्षिप्तेन कर्णावतंसीकृतस्य उत्पलस्य रजसा भृतं नायिकाया नयनं तद्रजोपनयनार्थं फूत्कुर्वन् । नेत्रपीडने सति मुखोष्मणा तत्सुखयन्तीति प्रसिद्धिः । फूत्कारमिषेण च अपूरिताभिलाषं चुम्बन् अयि ! त्वं देवानां मध्ये कतमोऽसि । नायिकावलोकन कौतुकेन अनिमिष नयनत्वात्त्वं देवानां मध्ये कोऽप्यसीति भावः । देवानां कोसीत्यनेन प्रसिद्धदेवा अप्येवंविधपुण्यफलभाजो न सन्ति किं पुनर्मनुष्या इति नायिकायाः सौन्दर्यातिशयः समभिव्यज्यते ।
दयितविरहेण भृशं पीडिता प्रोषितभर्तृका दयितसमागमाय त्वरयन्ती सखीमाहसहि दुम्मेन्ति कलम्बाईं जह मं तह ण सेसकुसुमाई । गूणं इमेसु दिअसु वह गुडिआधणुं कामो ॥ ७७ ॥ [ सखि व्यथयन्ति कदम्बानि यथा मां तथा न शेषकुसुमानि । नूनमेषु दिवसेषु वहति गुटिकाधनुः कामः ॥ ] नान्यकुसुमानि सखि मां व्यथयन्ति तथा यथा कदम्बानि । वहति हि कामो नूनं गुटिकाधनुरेषु दिवसेषु ॥ ७७ ॥
my प्रावृदिवसेषु । गुटिकाक्षेपकं धनुर्गुटिकाधनुः ( 'गुलेल ' इति भाषायाम् ) । गुटिकाकारेण कदम्बकुसुमेन कलितास्त्रः कुसुमशरो मां व्यथयतीति भावः । तथा च वसन्ते यथाकथंचिद् गमितेपि संप्रति वर्षाकालं यापयितुं नाहं प्रभवामीति विरहे वसन्तापेक्षयापि वर्षाकालस्य दुःसहता ध्वन्यते ।
काचिहूती विरहोत्कण्ठितायाः सुविषमया विरहवेदनया मरणभयं प्रदर्श्य तदुपगमार्थ त्वरयन्ती तत्कान्तमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org