________________
२ शतकम् ]
संस्कृतगाथासप्तशती ।
भुजङ्गप्रोत्साहनार्थं कुहनी वेशवामानां वक्रिमाणमेवमाहवङ्कच्छपेच्छिरीणं वङ्कुलविरीण वङ्कभमिरीणम् । वह सिरीण पुत्तअ पुण्णेहिं जणो पिओ होइ ॥ ७४ ॥ [ वक्राक्षिप्रेक्षणशीलानां वक्रोलपनशीलानां वक्रभ्रमणशीलानाम् । वक्रहासशीलानां पुत्रक पुण्यैर्जनः प्रियो भवति ॥ ] वक्राक्षिवीक्षितानां वक्रगतीनां च वक्रलपितानाम् । वक्र परिहासिनीनां पुत्रक पुण्यैर्जनः प्रियो भवति ॥ ७४ ॥ वक्रता स्वाभाव्यान्मूर्तद्रव्यधर्मोपि लक्षणया वीक्षणादिविशेषे संक्राम्यति । तथा च क्रमेण अक्षिवीक्षित-गत्यादीनां कटाक्षनिरीक्षणम्, विभ्रमभङ्गरा गतिः, सव्यङ्ग्यवचनप्रयोगः, साकूतं हसितं चार्थः । जनः एवंविधानां वेशवधूनां प्रियः पुण्यैर्भवति । पुत्रकेत्यto विश्रम्भात्त्वयि सत्यमाख्यायत इति सूचितम् । तथा च ' त्वं धन्योसि, येनैवंविधशीलापि मद्दुहिता त्वयि नितान्तमनुरक्ता' इति भुजङ्गं प्रत्यभिव्यज्यते । ' त्वमपि दानबहुमानादिभिरेनां निरन्तरं संतोषय' इति कुट्टन्यास्तं प्रति चरमं व्यङ्ग्यम् ।
गोदावरीतीरस्थितलताभवने कृतसंकेता काचित् - एकान्तस्थानमिति ध्यानाद्यवस्थित्या तत्र विघ्नकारिणं धार्मिकं भीषयितुमाह-
भम धम्मि वीसत्थो सो सुणओ अज मारिओ तेण । गोलाअडविअडकुडङ्गवासिणा दरिअसीहेण ॥ ७५ ॥
[ भ्रम धार्मिक विस्रब्धः स शुनकोऽद्य मारितस्तेन । गोदातटविकटकुञ्जवासिना दृप्तसिंहेन ॥ ]
भ्रम धार्मिक विश्रब्धः शुनकोद्य स मारितस्तेन । गोदातटविकटोद्भटनिकुञ्जवासेन दृप्तसिंहेन ॥ ७५ ॥
धार्मिकेति साक्षेपसंबोधनम् परस्य कार्यविघातकस्त्वमवश्यं धार्मिकोऽसीति । त्वं विश्रब्धः सन् भ्रम, नगररथ्याविति भावः । स शुनकः श्वा । स इत्यनेन यद्भयात्त्वया ग्रामे भ्रमणं त्यक्तमासीदिति सूच्यते । गोदातटस्य विकटश्च उद्भटश्च यो निकुञ्जः स वासस्थानं यस्य तेन । उच्चावच भूमितयाऽपरिज्ञेय विन्यास इत्युद्भट उक्तः । अत एव च सिंहाधिष्ठिततया विकटः सः । दृप्तसिंहेन अद्य मारितः । नगरमागत्य हननात्सिंहस्य दृप्तता ज्ञायते । अद्येत्यनेन मया न श्रुतमिति विश्वासे न स्थातव्यम्, यतोयतनी घटनेति पूर्वं श्रवणासंभवादिति निश्चयः सूच्यते । 'लब्धभोजनो नाऽद्य मनुष्यमाक्रमिष्यति' इत्यपि न विश्वसनीयम्, यतः स न केवलं भोजनापेक्ष एवाक्रामति, अपि तु स बलगर्विष्ठ इति दृप्तपदेनाभिव्यज्यते । तथा च गोदावरीतीरे सिंहसद्भावेन तत्र गमननिषेधः, रथ्यासु च श्वनिवृत्त्या भ्रमणमभिव्यज्यते । यत्तु शुष्कतार्किकेण महिमभट्टेन 'यद् यद् भीरुभ्रमणं तत्तद्भयकारणनिरृत्त्युपलब्धिपूर्वकम्' इति व्याघ्या गोदावरीतीरे सिंहोपलब्धिरूपभयका
सं. गा. ८
Jain Education International
८५
For Private & Personal Use Only
www.jainelibrary.org