SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ८४ काव्यमाला । [गृहपतिना मृतसैरिभबृहदण्टादाम चिरमूवा । वर्गशतानि नीत्वानन्तरमार्यागृहे बद्धम् ॥] गृहपतिना मृतसैरिभसुबृहद्घण्टास्रज सुचिरमूढा । वर्गशतान्यपि नीत्वाऽनन्तरमार्यागृहे बद्धा ॥ ७२॥ गृहपतिना मृतमहिषस्य बृहद्घण्टायुक्तां सज (दाम ) तत्सदृशस्य इतरमहिषस्य प्रतीक्षया सुचिरमूढा, पुनस्तादृशमहिषप्राप्तिकामनया महिषाणां वर्गशतान्यपि नीत्वा (क्रीत्वा ) तत्सदृशाऽपरमहिषाप्राप्त्या सा स्रक् पर्यन्ते आर्यागृहे चण्डिकायतने बद्धा, न त्वयोग्यस्य अन्यमहिषस्य कण्ठे इत्यर्थः । मम खामिना मृतस्य पशोरपि स्नेहमनुरुन्धानेन एवं कृतम्, त्वं तु जीवन्त्यामेव प्रियदयितायां तन्मण्डनेन तदननुरूपामन्यामलंकर्तुमिच्छसीत्यहो ते प्रणयवैमुख्यमिति नायकं प्रत्यभिव्यज्यते। 'गृहपति'पदेन गृहाधिष्टातृत्वेन स्वतन्त्रोपि स नैवं कृतवानिति सूच्यते । 'मुचिरमूढ़ा' इत्यनेन योग्यप्राप्तये तेन बहुतरं प्रतीक्षा कृता, त्वं तु तिष्ठन्त्यामेव तस्यां न तामाद्रियसे इत्युपालम्भो ध्वन्यते। 'अण्डुभ'शब्दो बृहद्घण्टायां वर्तते।। ___ सपत्नीनां विभवातिशयमालोक्यापमानेन म्लायन्ती सुभगामभिनववधू 'विभवादपि प्रियप्रणयो गरीयान्' इति ससान्त्वनं बोधयन्ती तत्सखी निदर्शयति सिहिपेहुणावअंसा बहुआ वाहस्स गघिरी भमइ । गअमोत्तिअरइअपसाहणाण मज्झे सवत्तीणम् ॥ ७३॥ [शिखिपिच्छावतंसा वधूळधस्य गर्विता भ्रमति । गजमौक्तिकरचितप्रसाधनानां मध्ये सपत्नीनाम् ॥] शिखिपिच्छकावतंसा व्याधवधूर्गर्विता भ्रमति । गजमौक्तिकपरिरचितप्रसाधनानां पुरः सपत्नीनाम् ॥ ७३ ॥ गजमौक्तिकैः परिरचितं सम्यक्तया कलितं प्रसाधनं याभिस्तादृशीनाम् । 'परि'णा स्वसौन्दर्यसमुज्जम्भणार्थ प्रसाधने यत्नातिशयः स्फोट्यते । एवंविधानां सपत्नीनां पुरः शिखिपिच्छकमवतसो यस्याः। 'पिच्छक' इति लाघवद्योतकेन केन तदवतंसनेप्ययनः प्रतीयते । तथा च 'येन महाबलिनः कुञ्जरान् हत्वा तत्कुम्भमुक्ताफलैर्भवत्यः प्रसाधिताः, स एव व्याधकुलपतिर्मत्संभोगात्यन्तप्रसंगेन संप्रति तथा क्षीणो यथा मयूरमात्रमारणे प्रभुः संवृत्तः' इति प्रियतमसौभाग्येन गर्विता तदभिप्रायप्रकटनाय तासां पुरो भ्रमतीति भावः। 'वनवासिन्योपि सम्पदपेक्षया सौभाग्यमेव बहु मन्यन्ते, त्वं तु विदग्धापि किमिति नैतत्परीक्षसे' इति नायिका प्रति ध्वन्यते। 'याति' इत्यायनुक्त्वा 'भ्रमति'पदेन 'कस्याश्चन सपत्न्या दृष्टौ पिच्छभूषणं पतेन्न वा' इति समन्ततः स्वप्रसाधनप्रदर्शनचेष्टा सूच्यते । ततश्च भ्रमणरूपेणानुभावेन गर्वाख्यसंचारिणः परिपोषो ध्वन्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy