SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ २ शतकम् ] संस्कृतगाथासप्तशती । प्रोषितपतिकायाः सखी सत्कान्तसमीपगामिनं पथिकमेवं संदिशति झञ्झावाउत्तिण्णिअघरविवरपलोट्टसलिलधाराहि । कुड्डलिहिओहिदिअहं रक्खइ अजा करअलेहिं ॥ ७० ॥ [झन्झावातोत्तृणीकृतगृहविवरप्रपतत्सलिलधाराभिः । कुड्यलिखितावधिदिवसं रक्षत्यार्या करतलैः ॥] झञ्झानिलोत्तृणीकृतगृहविवरप्रपतदम्बुधाराभ्यः। कुड्यलिखितावधिदिनं रक्षत्यार्या करतलाभ्याम् ॥ ७० ॥ आर्या साध्वी एषा झञ्झावातेन उत्तृणीकृतम् (उड्डायितान्याच्छादनतृणानि यस्य) यद् गृहं तस्य विवरात् प्रपतन्यो याः सलिलधारास्ताभ्यः । कुड्ये लिखितं यत्प्रवासस्यावधिदिनं तत्करतलाभ्यां रक्षति, करतलाभ्यामाच्छाद्य तं लेखं रक्षतीत्यर्थः । जलधारातो निजरक्षणापेक्षयापि प्रियलिखितावधिदिनरक्षणं बहुमतमिति प्रेमोत्कर्षों ध्वन्यते। 'आर्या' पदेन तन्नामाङ्कितं छन्दोपि सूचितमिति मुद्रालंकारोपि करतलोपनतः । तथा च 'भवल्लिखितमवधिदिवसं प्रतीक्षमाणैव एषा दीना कथंचित्कालं यापयति, तद्दिनातिकमे तु सुदुकरं तस्या जीवनमिति' प्रियं प्रत्यभिव्यज्यते । अत्र 'अम्बुधारामिः' इति तृतीया, करतलैरिति बहुवचनं च छायायामुपलभ्यमानं प्रमाद एव । ___'संकेतस्थाने नायकस्त्वत्प्रतीक्षया कामपीडामनुभवन्नुत्ताम्यति' इति नायिकाम् अन्यान् प्रति च तत्र गमने भयं सूचयन्ती दूती तावदन्यापदेशेनाह गोलाणइए कच्छे चक्खन्तो राइआइ पत्ताई। उप्पडइ मकडो खोक्खएइ पोट्टं अ पिट्टेइ ॥ ७१ ॥ [गोदावरीनद्याः कच्छे चर्वयन्राजिकायाः पत्राणि । उत्पतति मर्कटः खोक्खशब्दं करोत्युदरं च ताडयति ॥] पत्राणि राजिकायाश्चर्वन् गोदानदीतीरे । कपिरुत्पतति च कुरुते खोक्खरवं चोदरं च ताडयति ॥ ७१ ॥ राजिकायाः 'राई' इति ख्यातायाः। तत्पत्राणां तीव्रतया वदनदाहमनुभवन्वेदनया उत्पतति, तत्प्रतिचिकीर्षन्निव 'खोक्खो' इति शब्दं करोति, अवशश्चाप्रभवन्नुदरं ताडयतीति कपिखभावोक्तिः । एतेन च भवत्प्रतीक्षया इतस्ततः पर्यटन मुहुर्मुहुरुग्रीविकया त्वां विलोकयश्चपलस्वभावोसौ विलम्बेन वेदनातिशयमनुभवति' इति कुलटां प्रति, 'क्रोधान्धो मर्कटस्तिष्ठतीत्यनुपसर्पणीयं गोदावरीतटम्' इति चान्यान्प्रत्यभिव्यज्यते। सुभगायाः पूर्वपत्न्या अलंकारेण तदसमानामन्यां मण्डयितुमिच्छो यकस्यावधीरणार्थ पूर्वपत्न्याः सखी स्वभर्तुः प्रणयौचित्यमेवं वर्णयति गहवइणा मुअसैरिहडुण्डुअदामं चिरं वहेऊण । वग्गसआई णेउण गवरिअ अजाघरे बद्धम् ॥ ७२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy