________________
काव्यमाला |
अग्रपादिकयाऽवस्थितो दूरस्थितशाखाभङ्गं कुर्वन् नूनं कान्त्वैव स्वर्गं जिगमिषुरिव त्वं कथमद्यापि स्वर्गं न गतोसीति भावः । एवंविधस्य ते स्वर्गप्रयाणमेव साधीय इति शब्द - शक्त्युत्थापित आक्रोशोपि रसज्ञेभ्यो ध्वन्यत इत्यतिरोहितम् ।
८२
शृण्वन्तीं काञ्चिदन्यां नायिकां प्ररोचयितुमात्मनः सुदृढानुरागितां कामुकतां च प्रथयन्नागरिकः सहचरमाह
अच्छउ दाव मणहरं पिआइ मुहदंसणं अइमहग्घम् । तग्गामछेत्तसीमा वि झत्ति दिट्ठा सुहावेइ ॥ ६८ ॥ [ अस्तु तावन्मनोहरं प्रियाया मुखदर्शनमतिमहार्घम् । तामक्षेत्रसीमापि झटिति दृष्टा सुखयति ॥ ] प्रेयस्या मुखदर्शनमतिसुमहार्घे मनोहरं चास्तु | इष्टा झटिति सुखयते तद्ग्रामक्षेत्रसीमापि ॥ ६८ ॥
असहजलभ्यतया अतिसुमहार्घम्, यद्धि चेतःसमर्पणेन लभ्यते, अत एव मनोहरं च प्रियाया दर्शनमस्तु तावत् । तत्तु दूरे इति भावः । सा यत्र ग्रामे वसति तस्य ग्रामस्य यत्क्षेत्रं तस्य सीमापि दृष्टा सती झटिति सुखयतीत्यर्थः । तथा चैवंविधसुदृढप्रेमाणं मां चेत् कामयसे तर्हि कथं न धन्यासीति नायिकां प्रत्यभिव्यज्यते ।
प्रतिवेशिनो हलिकस्य मृतायामपि जायायां प्रेमातिशयं प्रशंसन्ती काचिन्मन्दस्नेहं नायकमभिमुखीकर्तुं सोत्प्रासमाह -
किम्मा विछेत्ताहिँ पामरो णेअ वच्चए वसइम् । मुअपिअजाआसुण्णइअगेहदुःखं परिहरन्तो ॥ ६९ ॥ [ निष्कर्मणोऽपि क्षेत्रात्पामरो नैव व्रजति वसतिम् । मृतप्रियजायाशून्यीकृतगेहदुःखं परिहरन् ॥ ]
निष्कर्मणोपि शून्यात्क्षेत्राद्वसतिं न पामरो व्रजति । मृतदयिताशून्यीकृतगृहदुःखं परिहरन् हन्त ॥ ६९ ॥
मृता या दयिता प्रियजाया तया शून्यीकृतं यद् गृहं तत्र यत्प्रियाप्रणयस्मरणजं दुःखं तत्परिहरन् पामरो हलिकः । ' पामर' पदेन पांसुलपादोपि प्रियाप्रेमानुवृत्तिमेवं निर्वहति त्वं तु चतुराभिमानीत्याक्षेपः सूच्यते । निष्कर्मणः कार्यरहितात् अत एव जनशून्यात्क्षेत्राद् वसतिं निजावासं गृहमिति यावत्, हन्त न व्रजति । ' वसति' पदेन गृहमेव किं जनावासमेव स न वाञ्छति, यतस्तत्र स्त्रीणामवलोकनेन जायायाः स्मरणं तस्य भवतीत्यर्थः सूच्यते । तथा च ' हालिकोपि प्रेमानुवृत्तिं निर्वहन् मृतभार्याप्रणयानुरोधेन गृहवासादर - ण्यनिवासमेव बहु मन्यते, त्वं तु विदग्धाभिमानी जीवितायामपि त्वच्छन्दानुवर्तिन्यां मयि मन्दस्नेहः' इत्युपालम्भोऽभिव्यज्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org