________________
२ शतकम् ]
संस्कृतगाथासप्तशती ।
८१
भाविनीं मनोरथसिद्धिमनुचिन्त्यापि पराभिसार संलग्नमानसाः सरोजदृशः प्रसीदन्तीति साधयितुं कृषकवध्वा रहस्यवेदी कश्चन नागरिकः सहचरमाहफलहीवाहणपुण्णाहमङ्गलं लङ्गले कुणन्तीए । असईअ मणोरहगब्भिणीअ हत्था थरहरन्ति ॥ ६५ ॥ [ कार्पासी क्षेत्रकर्षणपुण्याहमङ्गलं लाङ्गले कुर्वत्याः । असत्या मनोरथगर्भिण्या हस्तौ थरथरायेते ॥ ] कार्पासवप्रकर्षणदिनमङ्गलमधिहलं प्रकुर्वन्त्याः ।
हृदि धृतमनोरथायाः करावसत्या हि थरथरायेते ॥ ६५ ॥ फलहीवाहणं कार्पासक्षेत्रकर्षणम् । कार्पासक्षेत्रकर्षणस्य शुभदिने यन्मङ्गलम् आलेपनादिदानं तत् अधिहलं हलोपरि प्रकुर्वत्याः, हृदि धृतमनोरथायाः 'कार्पासगुल्मेषूत्पन्नेषु मयाऽस्मिन् क्षेत्रे रन्तव्यम्' इति मनोरथं धारयन्त्याः असत्याः (कुलटायाः ) कृषकवध्वाः हस्तौ थरथरायेते कम्पं प्राप्नुतः । पुंनपुंसकयोर्वप्रः केदारः क्षेत्रमस्त्रियाम् ।' इत्यमरः । सुरतसुखविचिन्तया स्मरोदयात्कम्पोदय इति भावः ।
मायाविनो युक्त्या निजकार्य साधयन्तीति सखीं शिक्षयन्ती सखी धूर्तविचेष्टितमाहपहिउल्लूरणसङ्काउलाहिँ असईहिँ बद्दलतिमिरस्स । आइप्पणेण णिहुअं वडस्स सित्ताइँ पत्ताई ॥ ६६ ॥ [ पथिकच्छेदनशङ्काकुलाभिरसतीभिर्बहलतिमिरस्य । आलेपनेन निभृतं वटस्य सिक्तानि पत्राणि ॥ ] बहलतिमिरस्य पथिकच्छेदनशङ्काकुलाभिरसतीभिः । आलेपनेन निभृतं वटस्य सिक्तानि पत्राणि ॥ ६६ ॥
घनपल्लवतया बहलतिमिरस्य अन्धकारबहलस्य अत एव संकेतस्थानभूतस्य वटस्य पत्राणि । भोजनकार्याद्युपयोगार्थम्, अन्धकारनिरासार्थं वा पथिका रछेत्स्यन्तीति शङ्कया आकुलाभिः कुलटाभिः, आलेपनेन पिष्टतण्डुलद्रवेण ( 'ऐपन' इति व्रजभाषया ) निभृतं सिक्तानि । अन्धकारप्रायेऽस्मिन् काकविष्टाशङ्कया पान्थाः पत्राणि न स्प्रक्ष्यन्तीति भावः । संकेतस्थानभूतस्य करञ्जस्य शाखा दन्तधावनार्थं भञ्जन्तं धार्मिकं सोपालम्भमाहभञ्जन्तस्स वि तुह सग्गगामिणो णइकरञ्जसाहाओ ।
पाआ अज वि धम्मिअ तुह कहँ धरणिं विह छिवन्ति ॥६७॥ [ भञ्जतोऽपि तव स्वर्गगामिनो नदीकर अशाखाः । पादावद्यापि धार्मिक तव कथं धरणीमेव स्पृशतः ॥ ] स्वर्गामिनो नदीतटकरञ्जशाखा विभञ्जतोपि तव । स्पृशतोद्यापि च पादौ तव धार्मिक धरणिमेव कथम् ॥ ६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org