________________
काव्यमाला ।
मिच्छाअरों पेच्छइ णाहिमण्डलं सावि तस्स मुहअन्दम् । तं चटु अ करङ्कं दोह्र वि काआ विलुम्पन्ति ॥ ६२ ॥ [ भिक्षाचरः प्रेक्षते नाभिमण्डलं सापि तस्य मुखचन्द्रम् । तच्चटुकं च करङ्कं द्वयोरपि काका विलुम्पन्ति ॥ ] भिक्षाचरोऽनुपश्यति नाभितटं सापि तस्य मुखचन्द्रम् । तच्चटुकं च करङ्कं द्वावपि काका विलुम्पन्ति ॥ ६२ ॥ अन्यजनावगमसाध्वसेन नीचीकृतनयनो भिक्षादातुर्नाभिमण्डलं शिथिलितवसनसन्धिदृश्यमानमनुपश्यति प्रेक्षते । तथा च नायकदर्शनेन वसनश्लथीभावसूचितो भावोदयो व्यज्यते । तस्याः चटुकं भिक्षादानपात्रं दवमिति यावत् । करङ्कं भिक्षाग्रहणपात्रं च । करङ्कपदं वंशादिनिर्मितपात्रविशेषे प्रयुज्यते, यथा 'ताम्बूलकरङ्कवाहिनी' इति बाणः । द्वावपि चटुककरङ्कौ काका विलुम्पन्ति तद्गतमन्नं खादन्तीति भावः । परस्परदर्शनेन होरपि स्तम्भाख्यसात्त्विकोदयात् काकानां निर्भयत्वमिति भावः ।
८०
पुनः पुनः कृतापराधं प्रियमनुनेतुं विप्रतिपद्यमानां कलहान्तरितां सखी समवबोधयतिजेण विणा ण जिविजइ अणुणिजइ सो कआवराहो वि । पत्ते वि अरदा भण कस्स ण वल्लहो अग्गी ॥ ६३ ॥ [ येन विना न जीव्यतेऽनुनीयते स कृतापराधोऽपि । प्राप्तेsपि नगरदाहे भण कस्य न वल्लभोऽग्निः ॥ ]
यं जीव्यते विना नोऽनुनीयते स हि कृतापराधोपि । प्राप्तेपि नगरदाहे भण कस्य न वल्लभो वह्निः ॥ ६३ ॥ नगरदाहेन कृतापराधोपि वह्निः कस्य न प्रियः, अपि तु सर्वस्येत्यर्थः । पाकाद्यर्थं तस्य सर्वैरेवोपादानात् । तथा च क्रोधोपशमे सति दयितं विना त्वज्जीवितं संशयापन्नं स्यादिति नायकानुरागोऽभिव्यज्यते ।
शृण्वन्तं विदग्धनायकं प्रत्यात्मनो वैदग्ध्यं सूचयितुं काचिद् ग्रामनिन्दाच्छलेनाहवक को पुलइजउ कस्स कहिजउ सुहं व दुक्खं वा । केण समं व हसिजउ पामरपउरे हअग्गामे ॥ ६४ ॥
[ वक्रं कः प्रलोक्यतां कस्य कथ्यतां सुखं वा दुःखं वा । केन समं वा हस्यतां पामरप्रचुरे हतग्रामे ॥ ]
कस्य मुखमीक्ष्यतां वा कस्य सुखं कथ्यतां च दुःखं च । केन समं वा पामरबहुले परिहस्यतां हतग्रामे ॥ ६४ ॥ पामरभूयिष्ठेऽस्मिन्यामहतके केन सह वा हासपरिहासौ स्यातामित्यर्थः । इङ्गितज्ञाभावेन मुखदर्शनादौ कटाक्षादेर्निष्फलत्वादिति भावः । एवं च विदग्धस्त्वं यदि वैदग्ध्यमङ्गनासु मृगयसे तर्हि तदिहावलोकयेत्यात्माभिमुखीकरणमभिव्यज्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org