________________
२ शतकम् ]
संस्कृतगाथासप्तशती ।
७९
क्षिप्रगमनेन स्तनभारायासितस्य मध्यस्यापि भङ्गं न विचारयसि । अहो मुग्धतया ते परिणामानभिज्ञतेति भावः । अनेन मध्यस्यातिलघुत्वं नायिकायाश्च सौकुमार्यमभिव्यज्य चाद्वारा मानमोचनचेष्टाचातुर्य व्यज्यते ॥
द्वयोर्युगपदनुरागाङ्कुरणेन मनोभवविजृम्भितं शोभत इति पथिकप्रपापालिकयोर्वृत्तान्तमवतारयति नागरिकः
उद्धच्छो पिअइ जलं जह जह विरलडुली चिरं पहिओ । पावालिआ वि तह तह धारं तणुइं पि तणुएइ ॥ ६१ ॥ [ ऊर्ध्वाक्षः पिबति जलं यथा यथा विरलाङ्गुलिश्चिरं पथिकः । प्रपापालिकापि तथा तथा धारां तनुकामपि तनूकरोति ॥ ] चिरमूर्ध्वाक्षोऽम्बु पिबति यथा यथा हि विरलाङ्गुलिः पथिकः ।. तनुमपि तनयति धारां तथा तथा सा प्रपापाली ॥ ६१ ॥ पिपासापगमेपि जलपानव्याजेन प्रपापालिका मुखावलोकन कौतुका दूर्ध्वाक्षः पथिको यथा यथा जलनिर्गलनाय विरलाङ्गुलिः सच्छिद्राङ्गुलिः सन् चिरम् अम्बु जलं पिबति तथा तथा तन्मुखावलोकनार्थं तनुं सूक्ष्मामपि धारां सा प्रपापाली तनयति तनूकरोति । ‘तत्करोति तदाचष्टे' इति तनुशब्दाण्णिच् । यथा स मुखावलोकनार्थं जलपानं केवलमभिनयति, न तु जलं पिबति, तथा सापि तदनुरोधं मन्वाना तन्मुखावलोकन कौतुकेन तनुमपि धारां पुनस्तनूकरोति न तु यथावज्जलं पाययति । तथा च द्वयोरेव कालविलम्ब - नेन परस्परमुखावलोकने तात्पर्यमवगम्यते । एवं च द्वयोरेव परस्परमनुरागोभिव्यज्यते । ययस्मिन्पद्ये विरलाङ्गुलिता-धारातनूकरणादिना कालविलम्बो व्यङ्ग्य एवाभविष्यन्न तु 'चिरम्' इति शब्दोपात्तस्तर्हि रुचिरमभविष्यत् । यथा अप्पयदीक्षितदत्तोदाहरणे'थोर्ध्वाक्षः पिबत्यम्बु पथिको विरलाङ्गुलिः । तथा प्रपापालिकापि धारां वितनुते तनुम् ॥'
यत्तु विरलाङ्गुलिकरणेन, मुखावलोकन मिच्छन्त्याः प्रपापालिकायाः पथिकेनोपकारः कृतः, एवं धारातनूकरणेन मुखावलोकन कौतुकिनः पथिकस्य प्रपापालिकयोपकारः कृत इत्यन्योन्यालंकारः साधयितुं वाञ्छितस्तदेतन्न सुन्दरम् । द्वयोरेव व्यापारे अन्यकर्तृकमुखावलोकन साहाय्य संपादन रूपोपकारस्थापनेन शृङ्गारापरिपोषात् । स्वेच्छया मुखावलो - कनविलम्बनमेव चमत्कारि, न तु स्वमुखावलोकनार्थमन्यस्य व्यापारे साहाय्यमित्यादि रसगङ्गाधरतोऽवगन्तव्यम् । प्रतीयमानाऽन्योन्यालङ्कारे सेयमुदाहृता गाथा कण्ठाभरणे भोजेन । ( ३परि २० ) ।
श्वश्रूप्रभृतिभिः सुभृशमवेक्षितां कामपि नायिकामुपायान्तरेण प्राप्तुमसमर्थः कोपि कामुको भिक्षाटनमिषेण तदीयगृहं प्रविष्टः । सा च तमवलोक्य स्वयमेव भिक्षां दातुं गता । तदनन्तरं 'भिक्षादानाय गता वधूः किमिति चिरयति' इति पृच्छन्तीं श्वश्रूं प्रति सपत्नी भिक्षाचरभिक्षादात्रोरनुरागचेष्टितमेवं वक्ति-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org