________________
७८
काव्यमाला |
येषां कृतेन रमितोऽस्यपहस्त्य सखीजनस्य गदितानि । एतानि तानि सौख्यानि संशयो यैर्हि जीवस्य ॥ ५८ ॥
हस्ताभ्यां निरस्यतीति हस्तयते ' णिङङ्गान्निरसने' इति णिङ् । अपपूर्वात्ततो ल्यप् । सखीजनजल्पितानि अपहस्त्य बलान्निरस्येत्यर्थः । येषां संगमसौख्यानां कृतेन त्वं रमितोसि, एतानि तानि सौख्यानि सन्ति, यैर्हि जीवितस्य संशय उपस्थित इत्यर्थः । त्वं नावधत्से परं त्वद्विरहेण मम जीवितमेव संदिग्धं सुखं तु तावद्दूरे । तथा च समागमसुखाशावलम्बनाहं त्वद्विरहं सोढुमक्षमेति स्पष्टमभिव्यज्यते । 'अपहस्तयित्वा' इति गङ्गाधरटीकापाठस्तु च्युतसंस्कृतिः । ' कृते न' इति पदविच्छेदोपि कैश्वन कृतः प्रकृतार्थविरोधी । रमणाभावे निर्वेदस्यानुदयात् ।
मधूकनिकुञ्जे दत्तसंकेतं जारं प्रतिवेशिन्यालापव्याजेन दूती संकेतस्थानान्तरं सूचयितुमाह
ईसालुओ पई से रतिं महुअं ण देइ उच्चेम् । उच्चे अप्पण चिअ माए अइउज्जअसुहाओ ।। ५९ ॥ [ ईर्ष्याशीलः पतिस्तस्या रात्रौ मधूकं न ददात्युच्चेतुम् । उच्चिनोत्यात्मनैव मातरतिऋजुकस्वभावः ॥ ]
ईर्ष्यालुः पतिरस्या दत्ते निशि नो मधूकमुच्चेतुम् । उच्चिनुते स्वयमेव हि मातऋजुकस्वभावोऽयम् ॥ ५९ ॥
रात्रौ तां मधूकमुचेतुं न ददाति । हे मातः ! सरलस्वभावः अयं स्वयमेव उच्चिनुते इति योजना | गृहे जायमानस्य जारसमागमस्याज्ञानादृजुस्वभावत्वम् । तथाच 'मधूकनिकुजे न गन्तव्यं किन्तु तस्या गृहमेव विश्रब्धं गच्छ' इति जारं प्रति ध्वन्यते । 'स्वयमेव' इत्येवकारेण 'अन्यस्य सहायकस्य सहाऽनुपादानान्मधूकावचय कार्यान्न शीघ्रं गृहे प्रत्यागमनम् । अत एव विश्रब्धतापि जारं प्रति व्यज्यते ।
अनुनयमगृहीत्वा धृतं च वस्त्राञ्चलं बलादाकृष्य साभिमानं गच्छन्तीं नायिकां नाय - कश्वाटुपुरस्सरमाह
अच्छोडिअवत्थद्धन्तपत्थिए मन्थरं तुमं वच्च ।
चिन्तेसि थणहराआसिअस्स मज्झस्स वि ण भङ्गम् ॥ ६० ॥ [ बलादाकृष्टवस्वार्धान्तप्रस्थिते मन्थरं त्वं व्रज । चिन्तयसि स्तनभरायासितस्य मध्यस्यापि न भङ्गम् ॥ ]
रभसावकृष्टवसनार्द्धान्तप्रसृते ! व्रज त्वमामन्दम् । मध्यस्यापि न भङ्गं स्तनभारायासितस्य चिन्तयसि ॥ ६० ॥
रभसात् बलादाकृष्टं वसनार्द्धान्तं वस्त्राञ्चलो यया सा चासौ प्रसृता ( प्रस्थिता ) चेति कर्मधारयः तत्सम्बुद्धौ । अनुनयाऽस्वीकारान्ममाऽनुरोधभङ्गस्तु तावदास्तां दूरे, परं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org