________________
२ शतकम् ] संस्कृतगाथासप्तशती।
नन्दन्तु सुरतसुखरसतृष्णाऽपहराणि सकललोकस्य ।
वेश्यानां प्रेमाणि हि बहुकैतवमार्गरचितानि ॥ ५६ ॥ नानाविधस्वभावस्य उत्तममध्यमाधमरूपस्य वा सकललोकस्य सुरते यः सुखरसस्तन या तृष्णा अपरितृप्तिः तदपहारकाणि । गृहस्त्रीषु यद्विधसुरतवितृष्णा न परिशाम्यति साप्यत्र निवर्तत इति विशेषः सूच्यते । तथा च यथाभिलषितसंपादकानीति फलितम् । तथा बहुभिः कैतवमार्गः हसितशुष्करुदितचाटुप्रभृतिभिर्विनिर्मितानि । प्रेममार्गे एवंविधैहावविशेषैः परमरोचकता भवतीति सूचितम् । एवंविधानि वेश्यानां प्रेमाणि नन्दन्तु, लाभसत्कारादिभी रसिकानामभिनन्दनीयानि भवन्त्वित्यर्थः । क्वचित् 'सुरतसरभसतृष्णापहराणि' इति पाठो दृश्यते । तत्र सुरते सरभसानि च तानि तृष्णापहराणि चेति कर्मधारयः। गृहयोषासु लजापारतत्र्येण सरभसता दुर्लभेति तत्र विशेषः । कुहनीविटादिवक्तृबोद्धव्यवशात्प्रशंसापरापि सेयं सूक्तिः–'सुरतसुखतृष्णायाः अस्वाभाविकमार्गबलक्षयात् अपहारकाणि, बहुकपटमार्गनिचितत्वाद्वैमुख्यसंपादकानि वेश्याप्रेमाणि तादृशानामेव कृते नन्दन्तु' इति तत्त्वतो विचारे निन्दामपि सूचयतीति गाथाग्रन्थितुश्चातुर्य समीक्षणीयं सहृदयैः । किमिति कृशासीति नायकेन सहासं पृष्टा विरहोत्कण्ठिता रुचिरं तमुत्तरयति
अप्पत्तमण्णुदुक्खो किं मं किसिअत्ति पुच्छसि हसन्तो । पावसि जइ चलचित्तं पि जणं ता तुह कहिस्सम् ॥ ५७॥ [अप्राप्तमन्युदुःखः किं मां कृशेति पृच्छसि हसन् ।
प्राप्स्यसि यदि चलचित्तं प्रियं जनं तदा तव कथयिष्यामि ॥] अप्राप्तमन्युदुःखः कृशेति पृच्छसि हसन्कि माम् ।
प्राप्स्यसि यदि चलचित्तं प्रियं जनं तव तदा वदिष्यामि ॥ ५७ ॥ न प्राप्तं मन्युकृतं दुःखं येन तादृशस्त्वम् । प्रियापराधजनितश्चित्तक्षोभो मन्युः। 'मन्युदैन्ये ऋतौ क्रुधि' इत्यमरः। परदुःखानभिज्ञतया हसन् सन् कृशेति मां किं पृच्छसि । हसन्नित्यनेन 'तव प्रेम वेदनानभिज्ञत्वान्न हार्दिकम्' इति सूच्यते । यदि चलचित्तं प्रियं जनं प्राप्स्यसि तदा तव वदिष्यामि, एतस्योत्तरं दास्यामीत्यर्थः । इदानीं कथितेपि न ते प्रत्ययो भविष्यति । तवास्थिरस्नेहत्वादेव ममेयं दशा । तथापि मामेव निरनुक्रोशो हसन्पृच्छसि, अहो ते हार्दिकं प्रेमेति सोपालम्भमभिव्यनक्ति । चिरादुपगतं जारं तत्प्रेमणि सोढबहुसंकटा विरहोत्कण्ठिता सनिर्वेदमाह
अवहत्थिऊण सहिजम्पिआइँ जाणं करण रमिओसि । एआई ताई सोक्खाइँ संसओ जेहिँ जीअस्स ॥ ५८॥ [अपहस्तयित्वा सखीजल्पितानि येषां कृते न रमितोऽसि । एतानि तानि सौख्यानि संशयो यैर्जीवस्य ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org